________________
सूक्तमुक्तावली पुत्र्याः का गतिः ? नृपोऽवक्-सापि पुण्यसारस्य भार्याभूत् । तदनु तामपि सत्कृत्य महता महेन गृहमानयत् । तदा तन्मनसि पूर्वजातकलहद्वेषो लेशतोऽपि नासीत् । तस्याअपि पुरातनकलहकालीनप्रतिज्ञा विस्मृतिरेवाभूत् । ततस्तयोरपूर्व एवानुरागः परस्परमुदैत् । तदनु गुणसुन्दरीभर्तृमिलनवार्तामाकर्ण्य ता अपि षड्भगिन्यस्तत्राऽऽययुः | ततस्ताभिरष्टाभिः पत्नीभिः सह देव इव स सुखममुक्त । तत्र नगरे तदभितोऽपि सर्वत्र पुण्यसारस्य कीर्तिः प्रससार ।
___ तत्रावसरे तन्नगरोद्याने चतुर्ज्ञानी शीलन्धराचार्य आगात् । वनपालेन तस्य वर्धापनं नृपाय निवेदितम् । राजा वनपालाय यथेष्टं धनं ददे । तदनु सपरिवारो राजा तं वन्दितुं तत्राऽऽययौ । सर्वे लोका वन्दनानन्तरं यथायोग्यस्थाने समुपाविशन् । तदा गुरुरवसरोचितं व्याख्यानं प्रारेभे, तथाहि- भो लोकाः ! सर्वे पदार्था विनवरा दृश्यन्ते । परमविनाशी सर्वत्र सहायकोधर्म एवाऽस्ति । स सर्वैः सदैवाऽऽराधनीयो यस्तं प्राप्यापि न करोति स एवातिमूढः । यतःअपारे संसारे कथमपि समासाद्य नृभवम्, न धर्म यः कुर्याद् विषयसुखतृष्णातरलितः। बुडन् पारावारे प्रवरमपहाय प्रवहणम्, स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते
॥१॥ - इह दुस्तरे संसारे महता कष्टेन मानुष्यं प्राप्य योधर्म न कुरुते तस्याऽलभ्यमिदं मानुष्यं मुधैव याति । अथ देशनान्ते पुरन्दरश्रेष्ठी गुरुमपृच्छत्- हे स्वामिन् ! पुण्यसारं वरीतुं रत्नवत्या इयान् विमर्शः कथमुदपद्यत ? गुरुरवदत्-श्रूयताम, एष पुण्यसारः पूर्वजन्मनि
247