________________
॥१२॥
सूक्तमुक्तावली दैवं निहत्य कुरु पौरुषमात्मशक्त्या, यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः
सर्वं हि यत्नतः प्राप्यते, तदा तस्यै पुंवैषं समर्प्यशकटोष्ट्रेवनेकेषु क्रेयवस्तूनि भृत्वाऽनेकपरिवारैः सह तां कनीयसी पुत्रीं गुणसुन्दरी भर्तुः शुद्ध्यै प्रास्थापयत्। ततः प्रस्थिता सा कियनिर्दिनैर्गोपालपुरमागात् । तत्र च विशिष्टं रत्नादि लात्वा तत्रत्यनृपायोपहृतवान् । राजा च कुशलप्रश्नादिना सत्कृत्य तस्य निवासाय चैकं महाभवनं समर्पितवान् । तत्र स्थित्वा सुखेन नानाविधं व्यापारमारब्धवान् । अल्पदिनैरेव तत्र प्रख्यातोऽभवद् गुणसुन्दरनाम्ना सर्वे च व्यापारिणस्तत्पार्धमागन्तुं लग्नाः ।
पुण्यसारोऽपि तदन्तिके क्रयविक्रयावालोकितुं लग्नः । तमुपलक्ष्य पुंवेष व्यापारयन्त्या गुणसुन्दर्या निश्चितम्- यदयमेवाऽस्माकमुवोढाऽस्ति तेन हेतुना तत्साकं महती मैत्री चक्रे | ततःप्रभृति द्वयोर्महान् स्नेहः पप्रथे चैकं विनाऽपरस्मै किमपि न रोचते स्म ।
अथ गुणसुन्दरस्य वैदेशिकस्य गुणसम्पत्त्यादिकमालोक्य सा रत्नवती पितरमवोचत- हे तात ! मह्यं गुणसुन्दर एव रोचते, अतस्तमेव वृणोमि, तेन सह मम पाणिग्रहणं कारय । तच्छ्रत्वा रत्नसारश्रेष्ठी निजपरिवारयुतस्तदन्तिकमागत्यैवमवदत् - हे गुणसुन्दर! त्वं मम पुत्रीं परिणय | यथा गुणैरुदारैस्त्वं शोभसे, तथैव सापि सकलैर्ललनागुणै रूपैश्च शोभते। तदाकर्ण्य मनसि सोऽचिन्तयत्हा दैव! त्वया प्रथमं ममेदृशं दुःखं दत्तं । पुनरस्या अपि किं दित्ससि?| तथापि तदवसरे यथा भाव्यं तथा भविष्यतीति विमृश्य गुणसुन्दर
244