________________
सूक्तमुक्तावली पुण्यसारस्तन्नेत्रे वञ्चयन्नितस्ततः पश्यन् द्रुतं व्रजन वटवृक्षकोटरे तस्मिन्नतिष्ठत् । तावता नगरकौतुकं वीक्ष्य ते स्त्रियावपि तत्र वृक्षे समुपाविशताम् । मन्त्रप्रयोगेण क्षणादेव स वृक्षो गोपालपुरे निजस्थाने समागतवान् । ते वनिते निजालयं जग्मतुः । पश्चात्पुण्यसारोऽपि कोटराबहिर्भूय धुतकारगृहे गत्वा निजाभरणानि दत्त्वा राजकीयाभरणानि तात्वा नगरकौतुकं विलोकमानः कुत्रापि चतुष्पथेऽतिष्ठत् ।
तावत्पुत्रं शोधयन्पुरन्दरः श्रेष्ठी तत्राऽऽययौ । पुत्रदर्शनादतिहृष्टीभूय पुत्रं गृहमनयत् । तत्र पिताऽपृच्छत्- हे वत्स ! त्वं कुत्राऽऽसीः ? अहं सर्वत्र विलोकयन्नैव त्वां कुत्राप्यपश्यम् । तदा सोऽवक्-हे पितः ? त्वमेव निजगदिथ यद्राजकीयं स्थापितमाभरणमशेषमानीय देहि तदेव लातुमहं गत आसम, ततो सर्वान्याभरणानि पित्रे ददौ । श्रेष्ठ्यपि तानि लात्वा नृपाय समार्पयत्।
इतश्च वल्लभीपुरे सा गुणसुन्दरी तत्रैवं चिरं स्थित्वा भर्तारमपश्यन्ती तत्रागत्य ताः सर्वा अपि भगिनीस्तत्स्वरूपं न्यवदत् । तद्वज्रपातोपममुदन्तं श्रुत्वा विच्छायवदनाः सर्वा अपि चिखिदिरे | जाते च प्रभाते भित्तौ तल्लिखितां गाथां वाचयित्वा ज्ञातं यत्कोऽपि व्यसनी नः परिणीय गोपालपुरमगमत् । तदनु तासां पित्रादिभिरप्येतद्विदित्वौदासीन्यं लेभे । तत्रावसरे गुणसुन्दरी पितरमाचचक्षे- हे तात ! शोकेन किम् ? मां पुंवेशं कुरु, ततोऽहं षण्मासाभ्यन्तरं तं संशोध्याऽत्राऽऽनयामि नात्र संशयीथाः । यदाहउद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः , दैवेन देयमिति कापुरुषा वदन्ति ।
243