________________
सूक्तमुक्तावली
सप्तम्यां मालायामागतः ।
तत्र च ताः सप्तभगिन्यः परस्परं कलां विकलां बहिर्लापिकामन्तापिकां काव्यनाटकादिकञ्च सरसमालपन्ति । परं तस्मै किमपि न रोचते यतस्तत्रावसरे तन्मनसि महती चिन्ताऽऽसीत्मया नृपस्थापितमाभरणं छूते हारितंतदर्थं मत्पितरं राजा किङ्करिष्यति? यदि ते स्त्रियौ गमिष्यतस्तर्हि मम का गतिर्भविष्यतीत्यादिचिन्तातुरः पुण्यसार आसीत् । ताश्च नानाविधहावभावादिकं दर्शयन्त्यो मुहुस्तमालापयन्ति, परं स तु चिन्तया किमपि नोत्तरति ।
तत्रावसरेतं चिन्तातुरंशून्यमानसं विदित्वा तासुकाचिदपृच्छत्हे नाथ ! किं क्षुधा बाधते ? तेनोक्तं-नहि नहि, तयोक्तं, तर्हि चिन्तातुरो मौनं कथं भजसे ? तेनोक्तमन्यत्किमपि नास्ति, परं देहशङ्कां निवर्तयितुमिच्छामि । तदैव सप्तमी सुदक्षा गुणसुन्दरी स्त्री भृङ्गारके जलं लात्वा जगाद- नाथ ! उत्तिष्ठ, ततस्तया सह पुण्यसारस्तत्र बहिर्गतवान् । परमसौ दध्यौ-एता हि मम ग्रामनामादिकं न विदन्ति । एतास्त्यक्त्वा यदि गमिष्यामि तर्हि परिणीतानामासां का गति-भविष्यति सर्वाश्च महादुःखिन्यो भविष्यन्ति । अतः किमपि सूचनीयं ततो गन्तव्यमिति ध्यात्वा तत्र कुड्ये तदैवं लिखित्वा नीचैरुदतरत् । तथाहि"क्यां गोवालय वल्लही, क्यां लम्बोदर देव ?। आव्यो बेटो यहि वसण, गयो सत्त परिणेव
॥११॥ अथ बहिरागतः स तामवादीत्- अयि प्रेयसि ! त्वयात्रैव स्थीयताम् । अहं शौचं विधाय समागच्छामि, सा तत्राऽतिष्ठत् ।
242