________________
सूक्तमुक्तावली
प्रत्यक्षीभूय तमवोचत्- अमुकमासे अमुकतिथौ निशि प्रथमयामे नगरद्वारे स्त्रीद्वयाऽऽगमनानन्तरमेकः पुमान् महाभाग्यवान् सकलगुणवानागमिष्यति तस्मै त्वया सप्तैव कन्या देयाः । इति हेतुना स सकलां विवाहसामग्रीं सज्जीचक्रे सुन्दरमद्भुतं विशालं मण्डपमरीरचत् । तेन विवाहोत्सवः प्रारम्भि पर वरस्य नियमोऽद्यावधि न जातः । देवोदितदिनमद्यैवास्तीति तत्र गत्वा कौतुकं द्रष्टव्यं किं भवतीति निश्चित्य तं वृक्षमभिमन्त्रितवती । तदा स वृक्षः समुड्डीय क्षणादेव वल्लभीपुरपरिसरमागात् ।
तत्र च ते स्त्रियौ ततो वृक्षादवतीर्य रात्रेः प्रथमे यामे द्वारं प्रविश्याऽन्तरागच्छताम् । तदनु पुण्यसारोऽपि तत्कोटराद् बहिर्भूय तदनुपदं तद्द्वारेण पुरान्तः प्राविशत् । तत्रावसरे देवतोदितवचनानुसारतः स्त्रीद्वयप्रवेशानन्तरं प्रथमे यामे प्रविशन्तं तमालोक्य श्रेष्ठिभटास्तं पुण्यसारं श्रेष्ठिसमीपमानिन्युः । श्रेष्ठ्यपि तं कन्यावरं मत्वा घनं सत्कृतवान्। तदा सोऽचिन्तयदेष महर्द्धिर्भूत्वा मामपरिचितं कथमेवं सत्करोति ?
ततः श्रेष्ठी महता सत्कारेण जगाद - हे महाभाग्य ! मम सप्त पुत्र्यः सन्ति तास्त्वमुद्वहस्व । तच्छृण्वन् पुण्यसारो मनसि नितरां जहर्ष, ततस्तमुत्तमवस्त्राभरणैरलञ्चक्रे । तदनु वरो घोटिकारूढो | महता महेन नृत्यगीतवादित्रैः सह पौरलोकैः पुरे बभ्राम । ततो विधिना ताः सप्तकन्याः पुण्यसारः उपायंस्त । करमोचनवेलायां स श्रेष्ठी I पुण्यसाराय वराय प्रचुरं धनमदात् । जाते च विवाहे तस्य सप्तभौमं प्रासादं शयनाय दत्तवान् । तत्र प्रासादे सप्तपत्नीभिः सह पुण्यसारः
241