________________
सूक्तमुक्तावली कियद्दिनानन्तरं राज्ञा मार्गिते तस्मिन् पुरन्दरो गृहमागत्य तत्र मञ्जूषायां समुद्घाटितायां तन्नाऽपश्यत्तदा स पुण्यसारमपृच्छत् - हे पुत्र ! मयाऽत्र त्वत्समक्षे राजकीयमाभरणं स्थापितम् । परमत्र तन्न पश्यामि किं त्वया नीतं तत् ? नृपोऽद्य मार्गयति । पुत्रोऽवक्- मयैव गृहीतम् । तदा पित्रोक्तं- तदानीय देहि राज्ञे देयमस्ति । पितुर्वचनं श्रुत्वा तदैव स निजगृहाच्चिन्तातुरो निरगच्छत् ग्रामाद्बहिरागतः स सन्ध्यां विलोक्य निशि कुत्र कथं व्रजेयमिति विचिन्त्य तत्रैकस्य वटवृक्षस्य कोटरे समुपविष्टः ।
इतश्च निशि पुत्रमपश्यन्ती तन्माता श्रेष्ठिनमवक्- स्वामिन्! पुण्यसारः क्व गतः ? श्रेष्ठी न्यगदत् - मया राज्ञो लक्षमूल्यकमाभरणं स्थापितं तत्तेनाऽपहृतमतो मयैव शिक्षार्थं निष्काशितः । हा ! रात्रौ त्वया पुत्रो निष्काशितो धन्योऽसि, याहि, सत्वरं संशोध्य पुत्रमत्रानयेति भार्योक्त्या पुरन्दरः स्वयमेव सर्वत्र संशोधितुमलगत् । सर्वत्रैवान्विष्टोऽपि कुत्राऽपि तच्छुद्धिर्न लब्धा । इत्थं पुत्रं शोधयतस्तस्य सकला रजनी निरगात् । यदा नगरान्तस्तस्य शुद्धिर्न लब्धा तदा श्रेष्ठी प्रभाते जाते नगराद्बहिरितस्ततस्तं संशोधयन्नासीत् ।
इतश्च यद्वृक्षकोटरे स तस्थिवान्, तद्वृक्षोपर्यागते द्वे स्त्रियौ मिथ एवमालपितुं लग्ने । यथा तयोरेकाऽवक्- अयि सखि ! अद्य मे कस्याप्यद्भुतकौतुकस्य दिदृक्षा वर्तते । द्वितीयाऽवदत्- कुत्र ? साऽवक्- सखि ! इतश्चतुः शतक्रोशोपरि वल्लभीपुरनगरं वर्तते । तत्र धनप्रवरनामा महर्धिकः श्रेष्ठी निवसति, तस्य सप्तपुत्र्यो विद्यन्ते । ता युवतीः पश्यता पित्रा वरचिन्तां कुर्वता लम्बोदरो देवः समाराधितः स
240