SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली I | ईदृशी निर्लज्जता साऽग्रे किमाचरिष्यति ? परं रत्नसारश्रेष्ठिना तदोक्तम्- हे श्रेष्ठिवर्य ! इयं मे पुत्री मुग्धा किमपि न वेत्ति । अत एतद्वचनेन मा खिद्येथाः । अहमेनां परिबोध्य स्वीकारयिष्यामि त्वं मान्योऽसि, त्वदुक्तं सर्वेषां शिरोधार्यं मम तु विशेषतः । इत्थमवसरोचितवचोभिः सत्कृतः पुरन्दर श्रेष्ठी निजालयमागात्, सर्वमपि पुत्राय न्यवेदयत् । तदा पुण्यसारो मनसि निश्चिक्ये यत्कदापि सा मां स्वेच्छया न वरिष्यति परमहं निजगोत्रदेव्या दत्तोऽस्मि । अत एतदर्थं सैव समाराध्या साऽवश्यं मदीप्सितं पूरयिष्यति । इति निश्चित्य धूपदीपनैवेद्यादिभिः प्रत्यहं त्रिसन्ध्यं तां गोत्रदेवीमाराधयितुं लग्नः । अथैकदा तुष्टा देवी तं प्रत्यक्षीभूय जगाद - वत्स ! तवाराधनेन तुष्टाऽस्मि स्वेप्सितं प्रार्थय । सोऽवदत्- हे मातः ! यदि प्रसन्नासि तर्हि रत्नवती मां यथा वृणुयात्तथा कुरुष्व । एतदर्थमेव समाराधितासि । देव्युवाच-अस्तु सापि तुभ्यं दत्तात्र संशयं मा कार्षीः । इत्युदीर्य देव्यदृश्याऽभूत्, पुण्यसारोऽपि हृष्टः स्वकार्यमध्ययनादिकं सयत्नतया कर्त्तुं लग्नः । अथ पुण्यसारस्य केनचिद् द्यूतकारिणा सह सङ्गतिर्जाता, ततः प्रभृति स द्यूतासक्तोऽभवत् । अथैकदा राज्ञा लक्षमूल्यकमाभरणं पुरन्दराय रक्षितुं दत्तं कथितञ्च कार्यकाले त्वयैतद्दातव्यं गृहे स्थाप्यतामिदानीमिति । सोऽपि तदाभरणं पृथगेव सुरक्षितप्रदेशे स्थापितवान् । पुण्यसारेण तदालोकि, अथान्यदा तदादाय द्यूते पुण्यसारेण हारितम् । I -239
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy