________________
सूक्तमुक्तावली
तच्छ्रुत्वा पित्रोक्तम् - हे वत्स ! इदानीमध्ययनसमयो वर्ततेऽतो यत्नेन विद्याभ्यासः क्रियताम्, परिणयनकाले प्राप्ते त्वदनुकूलया तयाऽन्यया वा सह ते विवाहं कारयिष्यामि । इदानीमुत्तिष्ठ भुज्यतां, पुत्रोऽवदत्- पितः ! तामुद्वाह्यैवाऽशिष्यामि । श्रेष्ठी जगौ - वत्स ! एतदाग्रहं त्यज किं त्वत्कथनेन त्वां परिणाययिष्यामि ? मम तु स्वत एव महतीच्छा वर्तते तव परिणयार्थम् । पुण्यसार आख्यत्-पुत्रपरिणयेच्छा पितुर्भवत्येव । मया त्वेषा प्रतिज्ञा कृतास्ति यद्रत्नवत्याः पाणिग्रहणं कृत्वैवाऽशिष्यामीति । प्रान्ते पित्रोक्तम् - हे वत्स ! उत्तिष्ठ, भोजनं कुरु । तस्याः पितुः पार्श्वङ्गत्वा त्वदुक्तं साधयिष्यामि । तदनु पित्रा सह गत्वा पुण्यसारो बुभुजे ।
अथ पुण्यसारः पितरमवादीत् - हे पितः ! त्वमिदानीं तत्र गच्छ, कार्यं साधय । तदा पुरन्दर श्रेष्ठी बहुयोग्य - परिवारयुतो रत्नसारगृहमाययौ । तमायान्तं विदित्वा रत्नसारस्तदभिमुखमागात, गृहागतं तं बहु सम्मेने । स्वागतप्रश्नानन्तरं सोऽपृच्छत् - भोः ! स्वामिन्! त्वदागमनेनाहमद्य स्वं धन्यं मन्ये, गृहं मे पवित्रमभूत् । अत आगमनप्रयोजनं ब्रूहि कार्यञ्चेत्किमपि तदादिश ।
तेनोक्तम्- भोः श्रेष्ठिवर्य ! मत्पुत्रेण सह तव पुत्र्या विवाहो यदि स्यात्तर्हि शोभनं भवेत् । एतदर्थमेवागतोऽस्मि, तच्छ्रुत्वा रत्नसारश्रेष्ठिना सहर्षङ्गीचक्रे । परं तत्रस्था तत्पुत्री त्रपां विहाय जगाद नहि नहि पुण्यसारमहं कदापि न वरिष्ये, तदन्यमेव वरिष्यामि । आजन्मकौमारव्रतिनी स्यामिति वरं तं तु स्वप्नेऽपि वरीतुं न कामये ।
I
तत्रावसरे मनसि दध्यौ पुरन्दरः । अहो ! इदानीमेव यस्या
238