________________
सूक्तमुक्तावली विद्यन्ते, स्वप्रेऽप्येष ते मनोरथो न सेत्स्यति । तदा पुण्यसारोऽवदत्नूनमहमेव त्वां परिणेष्यामि, अत्र मनागपि सन्देहं मा गाः । ततःप्रभृति तावेकत्र पठन्तावपि मिथो भाषणादि नाऽकुरुताम् ।
___ अथ पुण्यसारः स्वमन्दिरमागत्य विच्छायवदनः कुत्राप्येकान्तप्रदेशे तस्थौ । मात्रादिपरिवारैः सह न वदति स्म न च भुङ्क्ते । केवलं तामहं कथं परिणीय कृतां प्रतिज्ञां पूरयिष्यामीति विचारसागरे निमग्नस्तथा रत्नवत्यास्तादृग्वाग्बाणैरङ्गुष्ठतः शिखापर्यन्तं विद्धः किङ्कर्तव्यविमूढ इवाऽदृश्यत । यदाह-'उन्नतो न सहते तिरस्क्रियाम्। अन्यच्चपादाहतं यदुत्थाय, मूर्धानमधिरोहति ।। स्वस्थादेवाउपमानेऽपि, देहिनस्तद् वरं रजः
॥१०॥ इति परमेषा तत्कृता प्रतिज्ञा तामपरिणीय कदापि न गन्तुमर्हति पुनस्तदुद्वाहस्तु दैवायत्त इति हेतोस्तस्य पुण्यसारस्याऽधिकं वैलक्ष्यमभूत् । अत्रावसरे तत्पिता पुरन्दरो गृहमाययौ । भोजनसमये समाकारितोऽपि पुण्यसारः कुत्रापि केनाऽपि न लक्षितस्तदा स्वयमेव श्रेष्ठीतस्ततः शोधयन्नेकान्ते त्रुटिते मञ्चके विलक्षवदनं सुप्तं तमपश्यत् ।
तदा पित्रोक्तम्- वत्स ! उत्तिष्ठ, भोजनं कुरु, अद्य किं जातं येनाऽत्र म्लानमुखः सुप्तोऽसि ? तेनोक्तं- हे पितः ! त्वं याहि, भुक्ष्वाहमिदानीं न भोक्ष्ये । पिताऽवक-कथम् ? पुत्रोऽगदत्- हे पितः! मयाद्य प्रतिज्ञातम् यावद्रत्नवतीं न परिणेष्यामि तावदन्नोदके न ग्रहीष्यामीति । यावदियं प्रतिज्ञा मे न पूर्येत तावत्कथं भुञ्जीय ? अत एनामपूरयित्वा प्राणात्ययेऽपि भोजनं नैव कुर्यामिति तथ्यं विद्धि ।
-237