SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली अथैकदा पुत्रार्थी स श्रेष्ठी लोकोक्त्या धूपदीपादिनानोपचारैनिजगोत्रदेवीमारराध | कियदिनान्येवमाराधयतस्तस्य सा तुष्टा देवी प्रत्यक्षीभूय जगाद-वत्स! किमीहसे ? तन्मार्गय तदा श्रेष्ठी देवी पुत्रमयाचत । अथ तथास्त्वित्युदीर्य देवी निजस्थानमगात् । स्तोकेनैव दिनेन तत्पत्नी गर्भ दधार तत्प्रभावतः सा निशि सुस्वप्रमपश्यत् । ततो जागृता सा तत्फलं पतिमपृच्छद् । विचार्य सोऽवक्-हे प्रिये! तव गर्ने कोऽपि महान् पुण्यात्मा जीवोऽवतीर्णोऽस्ति तेन सा हृष्टाऽभूत् । तृतीये मासे श्रेष्ठी स्वामिवात्सल्यं, सङ्घपूजनं, जिनेन्द्राराधनंच महामहेन चक्रे । तथा सप्तक्षेत्र्यां यथाशक्तिधनान्यदात् पुण्यश्रियाश्च गर्भप्रभावत उत्तमा दोहदा अभूवन सर्वे च ते श्रेष्ठिना पूरिताः । तदनु दशमे मासि शुभमुहूर्ते स्वोच्चस्थानैकसद्गृहे सा पुण्यश्रीः पुत्रमजनिष्ट, श्रेष्ठी महोत्सवं कृतवान् । ततस्तस्य पुण्यसार इत्यभिधानमकरोत् । पञ्चमाब्दात्परं तं लेखकशाला प्रावेशयत् । स चाऽचिरेण कालेन पुंसो द्विसप्ततिकलाकुशलोऽभवत् । तत्रैव नगरे रत्नसारनामा श्रेष्ठी वर्तते, तत्पुत्री रत्नवत्यपि तस्यामेव शालायामागत्य पठति स्म । अथैकदा तया सह केन हेतुना पुण्यसारस्य कलहोजातो द्वयोः हुकारतुकारादिकमभवत् । छात्रैर्वारिते तयोः कलहो यदा न न्यवर्तत, तदा शिक्षकाः समेत्य तौ वारयामासुः। तदा पुण्यसारस्तामुवाच- हे रत्नवति! त्वं गर्व मा कुरु, नूनमहं त्वां परिणीय दासी करिष्यामि, एषा मे प्रतिज्ञाऽभूत् । एतत्सत्यं कृत्वैव स्वस्थीभविष्यामि । तयोक्तम्-कदाप्यहं त्वादृशं रई गुणहीनं न वृणुयाम् । त्वादृशास्तु मम गृहाणि मार्जयन्ति जलाहारका भृत्याश्च 236
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy