________________
सूक्तमुक्तावली सहते । अतो दुर्व्यसनं त्याज्यं येन सदाचारेण जन्मनः साफल्यं भवेत्तदाऽऽचरणीयम् । कुव्यसने त्यक्ते समाश्रितेच सदाचारे मोक्षोऽपि सुलभायते ||२२||
अथ ११-चूत-विषयेद्रुतविलम्बित-वृत्तम्सुगुरु देव जिहाँ नवि लेखये, धन विनाश हुचे जिण खेलवे । भव भये भमयूं जिण ऊपटे, कहि नि कोण रमे तिण जूवटे
॥२३॥ द्यूतव्यसनी पुमान् विशुद्धेषु देवगुरुधर्मेषु रागं न कुरुते, सन्मार्ग नाश्रयति, सर्वतोऽपि भ्रष्टीभूय द्यूतरमणसमासक्तमनाधनानि गमयति । संसारसागरान्मुक्तो भवितुं नाहति । अनन्तकालपर्यन्तं भवाम्बुधौ बुडन्नेव क्लेशपरम्परां सहते । यद्रमणेन नलयुधिष्ठिरादयो महापुरुषा अपि राज्यदारादिकं हारयामासुर्वनवासादि-क्लेशमपि सेहिरे | सर्वे श्रुता दृष्टा ये दोषास्ते द्यूतं रममाणस्यैव वर्तन्ते । अतः श्रेयोऽर्थिना मतिमता तत्त्याज्यमेव ||२३||
९-धूतरमणत्यागाल्सुखीभवतः
पुण्यसारस्य कथा- यथा-इहैव भरतक्षेत्रे गोपालपुरनगरे धनद इवाऽसीमसम्पत्तिमान राजप्रमुखसकललोकमान्यः पुरन्दरनामा श्रेष्ठी निवसति। तस्य भार्याशीलगुणमण्डिता पुण्यश्रीवर्तते। परंसकलसमृद्धिसत्त्वेऽपि तयोर्दम्पत्योः पुत्रार्थ महती चिन्ताऽऽसीत् ।
-235