________________
सूक्तमुक्तावली गत्वा देवोऽपि शिलोपरिकमलबीजं वप्तुंलग्रः । तदालोक्य तमप्यवदत्भोः किङ्करोषि ? जलेष्वेतदुप्यते, प्रस्तरे तु कमलानि नोप्यन्ते । अनेन कर्मणा त्वामतिमूर्ख जनाः कथयिष्यन्ति । देवो जगाद- भो! अहन्तु मूर्खः परं त्वन्तु मूर्खराज एव लक्ष्यसे । यत्त्वं मासषट्कमेनं शवं जीवितधिया वहन्न बुध्यसे | यदि मृतो जीवितो भविष्यति तर्हि शैलेऽपि कमलमुप्त रोक्ष्यत्येव । इति तदुक्तमाकर्ण्य व्यचिन्तयद् बलः-अहो! किमेष तथ्यं ब्रूते? तावदवधिपूर्तीशवे च वैकृत्यमजायत तदालोक्य कृष्णं मृतमवेदीत् । तदनु तदीयं शवं क्षीरसागरे निक्षिप्तवान् । तत्राऽसीमस्नेहं त्यक्त्वा चारित्रं गृहीत्वा तपश्चर्यायै तत्परोऽभवत् । बलभद्रस्य कथा पुरात्र धर्मवर्गे ४०-प्रबन्धे दर्शितास्ति ग्रन्थान्तरे च विस्तरतया वर्तते, तत एव विशेषदिदृक्षावताऽवलोकनीया । इह तु प्रसङ्गतः संक्षिप्तैव साऽलेखि |
अथ १०-कुव्यसन-विषयेनलिन मलिन शोभा सांझ थी जेम थाए, इह कुव्यसनथी त्यूं संपदा कीर्ति जाए । कुव्यसन तिण हेते सर्वथा दूर कीजे, जनम सफल कीजे कीर्ति कांता वरीजे ॥२२॥
दिने शोभमानं कमलवनमपिरजन्यां ग्लानतामुपैति । यादृशी सम्पत्तिः-शोभा तस्य दिने वर्तते तादृशी रात्रौ न जायते । तथा सदाचारवतां या शोभा, या कीर्तिर्या च सम्पत्तादृशी दुर्व्यसनरतजनस्य सा पूर्वोक्ता कापि न सम्भवति । ताः सर्वा अपि दुर्व्यसनिनं नरं त्यजन्ति । सम्पदाविहीनः कुव्यसनी लोक-निन्दामनेकविधं दुःखञ्च
234