________________
सूक्तमुक्तावली नचोत्ततार तदा बलभद्रेण ज्ञातं, अहो ! मम विलम्बोऽभूत्तेनाऽसौ कुपितो न वदति, न वोत्तिष्ठति, ततस्तत्पदयोः पतन्निजापराधः क्षमितश्चिरमनुनीतश्च । अहो ! जन्मत एवाऽसौ रोषणस्वभावोऽस्ति, सम्प्रति मम विलम्बत्वे विशेषेण रुष्टोऽस्ति, तेन नोत्तरति । इत्यादि विलपतस्तस्य महान् कालो यातः ।
ततः स्नेहग्रथिलः स निजस्कन्धे तं नीत्वा षण्मासानितस्ततो भ्राम्यन् व्यतीयाय । किञ्चोत्तमपुंसां तादृशां शवाः षण्मासपर्यन्तं विकृतिं नाधिगच्छन्तीति तच्छवविकृतिशङ्कावकाशोऽप्यत्र नोत्पेदे | स्नेहात्कृष्णशवं वहन् स बलभद्रस्तं मृतं नाऽवबुध्यते स्म । तेन संस्कारादिक्रियामपि न विदधाति ।
तत्रावसरे बलभद्रप्रतिबोधनाय कश्चिद्देवो नररूपेण तदने तैलनिष्कासनयन्त्रे सिकताः पीलयितुं प्रारभत | तं तथा कुर्वन्तं बलदेवोऽवदत्-किं भो! लोको हि तिलानि निपील्य तैलमधिगच्छति, बालुकन्तु न कोऽपि पीलयति । त्वमेतत्कथं पीलयसि ? देवोऽवदत्भोः ! तैलमवश्यमेव निर्गमिष्यति। बलदेवोऽवक्-नहि नहि, एतस्मात्तु रजांस्येवोत्पत्स्यन्ते। सिकतापेषणात्तैलोत्पत्तिः कुत्रापि दृष्टा श्रुता वा ? एतत्कर्मणा त्वं मूर्ख एव प्रतीयसे । अरण्यरोदनवदेष ते प्रयत्नः कदापि नैव सफलीभविष्यति । तदा देवोऽवदत्- भो ! अहं नास्मि मूर्खस्त्वमेव मूर्खराडसि । यतः षण्मासमृतमपि बन्धुं जीवन्तं मन्वानस्तच्छवं वहसे । यदि ते शवोऽयं जीविष्यति तर्हि बालुकेभ्योऽपि तैलोत्पत्तिर्भविष्यत्येव ।
तच्छ्रुत्वा बलदेवस्त्वं मूर्योऽसीति तं निगद्याऽग्रे यातस्तावत्पुरो
तच्छत्व
233