________________
सूक्तमुक्तावली वान् । तथैवाऽन्येऽपि सज्जनैः सह मैत्री कुर्युः ।।२१।।
6-अथ मित्रतोपरि कृष्णबलभद्रयोः कथानकम्
__ यथा पुरा द्वारिकापुरे दग्धे कृष्णबलभद्रौ ततो निर्गत्य काञ्चिदेकामटवीमीयतुः । तत्र श्रीकृष्णस्य तृषा लग्ना, तेन बलभद्रो जलं याचितः । तत्राऽवसरे श्रीकृष्णस्तरोरधस्तादुपाविशत् बलभद्रश्च जलं लातुं गतवान् । मार्गे केनचिद्वैरिणा सह युध्यमानस्य बलस्य विलम्बे जाते तृषातुरः श्रीकृष्णचन्द्रः पादोपरि पदं निधाय तत्रैव सुष्वाप, परं तदीयचरणे यत्पद्मलक्ष्माऽऽसीत्तद् दूरत एव रोचिष्णु विलोकमानस्तबन्धुर्मत्तः कृष्णस्य विनाशो मा भूदिति धिया पूर्वत एव वने वसन् जराकुमारो मृगभ्रमावाणं मुमोच, तेन च तच्चरणं विद्धमभूत् । तदाऽतिव्यथितः कृष्णोऽपिअरे किआतमित्युच्चैरजल्पत्तदा लक्ष्ये संलग्नं बाणं लातुं तत्राऽऽगतो जराकुमारः स्वबाणेन विद्धं यदुपर्तेश्चरणं वीक्ष्य पश्चात्तापं कुर्वन् तदीयचरणयोः पतन भृशं शुशोच अवदच्च- हे बन्धो ! मया मृगभ्रान्त्या शरो मुक्तस्तदागः क्षम्यताम् । तदा कृष्णेन भणितः- हे कुमार! त्वमितः सत्वरमपसर, नो चेबलभद्रः समागतस्त्वामपि हनिष्यति ।
अथ निर्गते जराकुमारे कृष्णस्तद्बाणमुद्दधे, तदा तस्य महती वेदनाऽभूत् तेन तस्य जराकुमारोपरि विद्वेषो जातः । तत आयुषः क्षीणत्वात्तथैव भवितव्यत्वाच्च स ममार |
तदनुसमागतोबलभद्रस्तमेवमवदत्-हे भ्रातः! मया जलमानीतं सत्वरमुत्तिष्ठ जलं पिब । इत्थं बहुधाऽऽलपितोऽपि स यदा नोत्तस्थौ,
232