________________
सूक्तमुक्तावली स्तदुक्तिमङ्गीकृतवान् । ततो महोत्सवेन रत्नसारश्रेष्ठी निजपुत्रीं रत्नवतीं गुणसुन्दरेण साकं परणायितवान् ।
अथ रत्नवतीपरिणयं श्रुत्वा पुण्यसारः कुलदेवीमवदत्-मातः! तवाऽपि वचनमलीकमभवत् यद्रत्नवत्या गुणसुन्दरेण सह विवाहो जातः । देव्यवदत्- पुत्र! मद्वचनं वृथा नाऽभून्न भविष्यति । पुण्यसारः पुनरवदत्- मातः ! सा परस्त्री जाता सा मदुपयोगे नागमिष्यति । देवी जगौ-त्व निश्चिन्तो भव, सा रत्नवती तु पूर्वमेव तुभ्यं मया दत्ता | सा कदापि परस्त्री नाऽभून्न भविष्यति, ततः स देवीं प्रणम्य निजकार्ये लग्नः ।
ततोगुणसुन्दरेण सह तस्याः स्नेहो ववृधे, यथा नखमांसयोरस्ति, पर दाम्पत्यसंयोगसम्बन्धस्तयोस्तावदप्रकटित एवाऽऽसीत् । अथैकदा गुणसुन्दरी दध्यौ-यन्मया प्रतिज्ञातं तस्याप्यवधिरासन्नो दृश्यते । पतिः प्राप्तस्तत्र संशयो नास्ति, अतो भर्तृवियोगजदुःखसहनमनुचितमेव । इति केनाप्युपायेन पतिं व्यक्तीकृत्य सुखमनुभवनीयमिति विचार्य श्मशानभूमौ चिता कारिता । तस्यां मर्तुकामोऽभवद् गुणसुन्दरस्तत्स्वरूपं सर्वेऽपि नृपादयो विविदुः । सर्वेषां विस्मयो जज्ञे यत्केन हेतुना गुणसुन्दरसार्थवाहो नवयौवनश्चितां प्रवेष्टुमिच्छति ? कारणन्तु केऽपि न विदुः । सर्वत्र नगरे हाहाकारो जातो, नृपो दध्यौयदि स एवं विधास्यति तदा मे महत्यपकीर्तिर्भविष्यति। यदेतद्राज्येऽमुकः सार्थवाहश्चितां प्रविश्य ममारेति । अतस्तथा स न कुर्यादिति यतितव्यम् ।
तदनु राजा स्वयमेव गुणसुन्दरान्तिकमागत्य तत्कारणम
-245