________________
सूक्तमुक्तावली
तावत्तस्याऽपायङ्कर्त्तुं नैव शक्ष्यामः । अतः प्रथममस्माभिस्तथा विधातव्यं यथाऽस्मासु तस्याऽऽत्मीयबुद्धिरुत्पद्येत, लेशतोऽपि भेदबुद्धिर्न तिष्ठेदिति सर्वैरनुमोदितम् ।
तदनु सर्वे काकास्तदन्तिकमेत्य तं नमश्चक्रुः सर्वे च तत्रोपाविशन् । तत्राऽवसरे तेषां मध्ये यो नायकः स जगाद - हे पक्षिराज निशाटन ! त्वमस्माकं स्वाम्यसि, वयं ते प्रजाः स्मः । सदैव त्वत्सेवायै समुद्यतास्तिष्ठामोऽतो मनसि कस्मादपि भीतिं मा गाः । अस्मासु सत्सु सुरक्षकेषु तव नामाऽपि लातुं केऽपि नार्हन्ति । किमधिकेन ? तवार्थे सर्वे वयं प्राणान्दित्सामः । अस्माकन्तु तव सुखेनैव सुखं दुःखेन च दुःखं भविष्यति, अत्र मनसि मनागपि शङ्कां मा कृथाः । परमस्मास्वपि त्वया कृपा विधातव्या, यतः सेवकाः प्रभोः सदैव प्रसादमेव वाञ्छन्ति । यथाऽधुना वयं पीड्यन्ते, हे नाथ ! तथाग्रे पीडां मा देहि तथा सति जीवितदानमेवाऽस्माभिस्त्वत्तः प्राप्तमिति ज्ञास्यामः ।
अथ काकस्येदृशं वचनमाकर्ण्य तेनोक्तम्- यूयं सर्वे मामभिरक्षत, युष्माकमद्यप्रभृति कापि भीतिर्न भविष्यति । तन्निशम्य सकला अपि काका उलूकवचनं सहर्षं मेनिरे ।
|
अथ तस्मिन्नेव दिने स उलूकः कतिपयपरिवारयुतो गिरिगह्वरे तस्थिवान् वायसाश्च तद्द्वारि रक्षाकृते तस्थुः । तदा पूर्ववैरं स्मरन्तः काका दध्युः - ईदृशोऽवसरो न मिलिष्यति, इतीदानीमेव समीहितं साधयामः । तदनु ते काका अनुक्रमेण चखा बहूनि शुष्केन्धनान्येकैकशः समानीय तत्र गुहाद्वारि समचिन्वन् । तदनु सञ्चितेषु तेषु तेऽर्धज्वलदङ्गारं समानीय क्षिप्तवन्तः । तत इन्धनेषु प्रज्वलितेषु गृहान्तः स्थास्ते
-227