________________
सूक्तमुक्तावली
उलूकपक्षिणो भस्मसाद्बभूवुः ।
ततः कृतकृत्याः काकास्तदर्थं स्वच्छजलवति सरसि स्नात्वा स्वस्थानमगुः । परस्परमूचुः - भो भोः ! काकाः ! पश्यत-पश्यत विश्वासमुत्पाद्य दुष्करं यद्वैरिनिकृन्तनमासीत्तदनायासेनैव सम्पादितमस्माभिरन्यथा तन्नैव स्यात् । अयमत्र ज्ञातुं सारोऽस्ति यदुलूको रिपोः काकस्य मिष्टवाक्यैर्विश्रब्धीभूय यथा सकुलो ममार, तथाऽन्योऽपि यः कोऽपि शत्रौ विद्यासं विधास्यति स नूनमुलूकवज्जीवितं हास्यति । अतोऽहं वच्मि दुर्जनजनस्य कदापि विश्वासो नैव कर्त्तव्यः ।
|
अथ ९ - मैत्री - मित्रता-विषये -
करि कनक सरीसी साधु मैत्री सदाई, घसि कसि तप येथे जास वाणी सवाई | अहय करहि मैत्री चंद्रमा सिन्धु जेही, घट घट वध बाधे सारिखा वे सनेही
॥२०॥
यथा-सुवर्णमग्नितापितं समुज्ज्वलति, यथा वा कषणोपलसंघृष्टं कनकं महार्घतामुपैति । पुनः कनकं कदापि निजगुणं न मुञ्चति, तथा परीक्षितेन सज्जनेन सह मैत्री कर्त्तव्या । स एव सन्मित्रमुच्यते, यो विपद्यपि न जहातीति सुवर्णवत्सन्मित्रस्य लक्षणमवसेयम् । पित्तलमग्नौ यथा श्यामायते, तथा यः कार्यकाले मित्रं त्यजति, अन्यदा स्वार्थवशेन तमुपैति, ईदृशेन सह मैत्री न विधेया, यदियं सत्यवसरे विफलायते । यदाह भाषाकविः
सज्जन तब लग जाणिये, जब लग पड्यो न काम । हेम हुताशन परखिये, पीतल निकसे श्याम
228
॥७॥