________________
सूक्तमुक्तावली
मकरोऽवक्-तत्राऽहं त्वां सुखेन नेष्यामि, त्वं मम पृष्ठे समारोह, तत्राऽहं त्वामक्लेशेन शीघ्रं नयामि ।
ततः कपिस्तत्पृष्ठोपर्युपाविशदथो मकरस्तं नीत्वा हृदि मुदमावहन् स्वस्थानं प्रत्यचलत्कियद्दूरं गत्वोवाच- हे सखे! मम मकरी तव हृदयं बुभुक्षति । सा सगर्भा वर्तते, तस्या ईदृगेव दोहदः समुत्पन्नोऽस्ति । तच्छ्रुत्वा कपिर्दध्यौ - अहो ! मया त्वस्यातिमिष्टानि फलानि भोजितानि । तत्प्रतिफले त्वेष खलतामेव प्रकटयन् मामेव जिघांसति, अतोऽसौ स्वबुद्ध्या वञ्चनीयस्तदैव जीविष्यामीति विचार्य प्रत्युत्पन्नबुद्धिः कपिर्विहस्याऽवोचत् - मम भ्रातृजाया मद्धृदयं बुभुक्षति चेत्का हानिः ? सहर्षमहं दास्यामि । परमेतत्त्वया तत्रैव कथं नोक्तम् ? यतोऽहं हृदयं वृक्षोपर्येव स्थापितवानस्मि, ततस्तत्र गत्वाऽपि तस्यै किं दास्यामि ? अतो मां पश्चात्तीरं नय । तत्र गत्वा हृदयं लात्वा सत्वरमागमिष्यामि, ततस्ते पत्न्यै दत्त्वा प्रसादयिष्यामि ।
निर्बुद्धिर्मकरस्तदैव तटमाययौ, कपिस्तूत्प्लुत्य वृक्षमारुरोह । किञ्चिद्विरम्य मकरेण समाहूतः कपिरवादीत् - रे विश्वासघातक खल! त्वं जलचरोऽहं च भूचर इति त्वया सह मम का मैत्री ? मया ते यन्मधुरं फलमेतावद्भोजितं तत्फलमदर्शि । त्वन्तु मामेव जिघांससि, याहि याहि । कपिनोक्तमन्योऽपि यः कश्चन खलेन सह मैत्रीं कुरुते करिष्यते वा तस्यापि मकरवत्स खलः सत्यवसरे जीवितं लाति लास्यति चातः प्राणधनसुखादिकापहारिणी खलमैत्री सर्वथा त्याज्यैव ।
-225