SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली कार्यमादिशति, यदि न पूरयिष्यामि तदाऽनिष्टमपि स्यादिति विमृश्य तेनोक्तं-प्रिये! दुष्करस्ते दोहदस्ततस्तयोक्तं- नाथ! छलप्रपञ्चादिना स्वमित्रं तमत्र समानय । पश्चादहं चातुर्येण तदीयहृदयमांसमशित्वा पूर्णदोहदा भविष्यामि। अथ तद्दिने स मकरश्चिन्तित इव तत्राऽऽगत्य तस्थौ, कपिनाऽर्पितफलमपि भक्षयितुं नैच्छत् । तदा प्रेमपात्रेण कपिना भणितो- मित्र ! किमद्य जातम् ? येनौदास्यं भजसे, सस्नेहेन न भाषसे न किमप्यत्सि ? तदा दीर्घ निःश्वस्य कपटेन मकरोऽवक्मित्र ! किं वच्मि ! अद्य मे प्रियङ्करी मकरी केनचिद्धेतुना कुपिता जाता । अतो न खादति, न पिबति, न मय्यालपति, न मया सह प्रेम्णा वक्ति । शतशः प्रार्थितापि न प्रसीदतीति दुःखातुराय मेऽशनलपनादि किमपि न रोचते, अतोऽत्राऽऽगन्तुमपीच्छा नासीत् । तथापि तवाऽतिस्नेहेन कथमप्याऽऽगतोऽस्मि, यावत्सा प्रसन्ना न भविष्यति तावन्मे मनोऽपि स्वस्थं नैव स्यात् । मम तु तत्प्रसादकृते कृता यत्नाः सर्वे वैफल्यमीयुः । त्वं मे स्निग्धः सखाऽसि, अतस्त्वदुपायेन सा प्रसन्ना भविष्यति । अतस्त्वं भ्रातृजायां प्रसादय, येनाऽहमपि सुखी स्याम् । तदुक्तमाकलय्य कपिनाऽचिन्ति-सज्जना हि सर्वस्यापि कलहादिक्लेशं मोचयन्त्येव, मम त्वसौ परमस्नेही सखा वर्तते । एतदीयदुःखन्तु मोचितव्यमेवेति विमृश्य तमवक्- सखे ! चिन्तां मा कुरु, त्वरितमहमवश्यमेव केनचिदुपायेन तां प्रसादयिष्यामि । परं सा जले तिष्ठति, मित्र ! तत्र मे गमनं कथं भविष्यसि ? तच्छ्रत्वा 224
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy