________________
सूक्तमुक्तावली
कश्चिन्मर्कटो जलस्थमेकं मकरमतिमिष्टं फलं भोजयित्वा मित्रमकरोत् । स खलतरो जलचरस्तु तदीयहृदयमेव भक्षयितुमयतत । तद्विदित्वा बुद्धिमहिम्ना तं मकरं तत्रैव मुक्त्वा स मर्कटो जलाबहिराययौ । अतः खलेन कपटिना सह मैत्री कदापि नैव विधातव्या ||१७||
५- अथ सरलकपटिमित्रोपरि
कपिमकरयोः कथासमुद्रे कश्चिन्मकरः प्रतिवसति, तमेकदा तीरागतं मर्कटोऽपश्यत् । सरलस्वभावः कपिस्तस्मै मिष्टं फलं प्रदाय तेन सह मैत्रीचकार | मकरोऽपि तद्भक्षयित्वा तदपूर्वरसलोभेन प्रत्यहमुपतीरमागत्य तस्थौ । कपिरपि प्रतिदिनमनेकविधममृतोपमं परिपक्वं फलमानीय तस्मै स्नेहवशाददात् ।
___ अथैकदा स मकरस्तत्फलानि स्वमकरी भोजितवान् । साप्यतिमिष्टदिव्यफलाऽशनप्रमुदिता स्वपतिमपृच्छत्- हे नाथ ! त्वमेतत्फलममृतस्वादु कुत्र कथं लेभिषे ? तेनोक्तं- प्रिये ! ममैकः कपिः सखा वर्तते तेनाऽर्पितम् । तत्रावसरे साऽवक्- स्वामिन् ! यः प्राणी सदैवेदृशान्यमृतोपमानि फलान्यश्नाति, तस्य शरीरस्य माधुर्यमनुपममेव स्यात् । ततो मे तस्य हृदयमशितुं वाञ्छास्ति, साम्प्रतमन्तर्वत्नीत्वादयमेव दोहदो ममोत्पन्नोऽस्ति । एष केनाप्युपायेन कपटादिनापि त्वयाऽऽशु पूर्यताम्, नो चेद् गर्ने विकृतिमुपैष्यति ।
इति मकरीवचः समाकर्ण्य मीनोऽचिन्तयत् - एषाऽतिदुष्कर
-223