________________
सूक्तमुक्तावली यदा महावीरोहनुमान्न्यवेदयत्तदा तुष्टोरामस्तस्मै कच्छबन्धनवसनमात्रमदात् । अतः कर्मानुसारि फलं मत्वा महतां भक्ति कुरुत ||१५||
अथ ७-खलता-दुर्जनता-विषयेरस विरस भजे ज्यूं अंब निब-प्रसंगे, खल मिलण हुवे त्यूं अंतरंग प्रसंगे । सुण सुण ससनेही जाणि ले रीति जेही, खल जन निसनेही तेहरों प्रीति केही ? ॥१६॥
यथा निम्बरसालयोरेकदेशस्थयोः सम्पर्कात् निम्बकटुतागुण आम्ररसे समायाति अर्थादामस्य नैसर्गिकं यन्माधुर्यं तदपि निम्बसंगेन कटुत्वमुपैति। तथा खलसंसर्गात्सज्जनोऽपि दुर्जनायते द्वौ शुकाविव यदाह"माताप्येका पिताप्येको, मम तस्य च पक्षिणः । अहं मुनिभिरानीतः, स च नीतो गवाशनैः
॥५॥ गवाशनानां स गिरः शृणोति, अहं च राजन् ! मुनिपुङ्गवानाम् । प्रत्यक्षमेतद्भवतापि दृष्टं, संसर्गजा दोषगुणा भवन्ति ॥६॥
अतो द्यूतपरस्त्रीरमणादिकात्मिकोभयलोकदुर्गतिदुःखप्रदायिकतादृशी दुर्जनसङ्गतिः सदैव सर्वस्त्याज्या ||१६|| अन्यच्चमगर जल वसंतो ते कपीराय दीठो, मथुर फल चखावी ते कस्यो मित्र मीठो । कपि कलिज भनेवा मत्स खेली खलाई, जलमहि कपि बुद्धी छांडि दे ते भलाई ॥१७॥ 1. अजैनरामायणप्रसङ्गः
222