________________
मधुकर मधु संचे भोगवे को अनेरो । तिम धन कृपिकेरो नोपकारे दिवाये, इम हि विलय जाये अन्यथा अन्य खाये
॥७॥
यथा-कीटिकागणः कणशो धनानि सञ्चित्य न स्वयं भुङ्क्ते, न परान् भोजयति, न वा धर्मार्थं व्येति किन्त्वन्य एव तदीयसञ्चितं धनं भुङ्क्ते । पुनर्यथा क्षुद्राभिः सञ्चयकृतं मधु परो भुङ्क्ते, तथैव कृपणो धनसञ्चयमेव करोति । तत्स्वयं धर्मादौ नैव व्येति, किन्तु राजा यक्षादिश्चौरादिको वा तद्धनं हठादपि गृह्णाति ||७||
५ - कार्पण्ये मधुमक्षिकायाः दृष्टान्तःयथा-कोऽप्येको दाता ज्ञानिनमप्राक्षीत् - हे दयानाथ ! कृपणस्य मधुमक्षिकासाम्यं कथं दीयते ? ज्ञानी जजल्प- हे दातः ! श्रूयताम्मधुमक्षिका हि महता परिश्रमेण नानादेशतो रससञ्चयमेकत्र कुर्वते इयन्तं परिश्रमं कृत्वाऽपि रसेषु माधुर्यरूपां लक्ष्मीं स्वयं मनागपि न भुञ्जते, नैव कस्मैचिदपि सुपात्राय दानबुद्ध्या ददते । तथैव ये कृपणा जायन्ते तेऽपि समर्जितं निजं द्रव्यं भूमावेव निदधते । स्वयं किञ्चिदपि नोपभुञ्जते। नैव कुत्रापि धर्मार्थं विनियुञ्जते । अतः लोके कृपणा मधुमक्षिकासमा गीयन्ते ।
कृपणपणु धरता जे नये नंदराया,
कनकगिरि कराया ते तिहां अर्थ नाया ।
सूक्तमुक्तावली
इम ममत करतां दुःख - वासे वसीजे, कृपणपणु तजीने मेघ ज्यूं दान दीजे
218
किञ्च-कृपणाग्रेसरा नवनन्दराजाः पृथक् पृथक् कनक