SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली ४-अथ धनप्रभावेण रङ्कष्ठिजित शिलादित्यनृपस्य कथानकम् अस्ति गुर्जरदेशस्य पश्चिमभागे सर्वसमृद्धिसम्पन्नाऽऽहद्धर्माऽनुरागिमहामहेभ्यैराढ्या वल्लभीनामपुरी | तस्यामतिप्रतापी शिलादित्यनामा राजा राज्यं करोति स्म । तत्रैव नगरेऽतिधर्मिष्ठो धनधान्यसमृद्धो नित्यं देवगुरुभक्तिकारको दीनजनपरिपालको रङ्कनामा श्रेष्ठी प्रतिवसति स्म । राजमहिष्याः श्रेष्ठिन्या सह प्रीतिरासीत् । एकदा राज्ञोऽन्तःपुरे कुतश्चित्कार्यवशादागतायाः श्रेष्ठिन्याः करे रत्नजटितस्वर्णकङ्कतिका राज्याऽवलोकिता । तल्लुब्धया तयाऽवसरं प्राप्य भूपो भणितः- स्वामिन् ! रङ्कनाम्नः श्रेष्ठिनो भार्याया यादृशी प्रसाधनी वर्तते तादृशी तु ममाऽपि नास्ति । ततो यथा सा मे देयात्तथा कुरु नो चेदहमन्नोदकं न ग्रहीष्यामि । तन्निशम्य राज्ञोक्तं- प्रिये ! त्वं मा शोचीः, साम्प्रतमेवानीय दीयते । ततः श्रेष्ठिगृहं गत्वा राज्ञा श्रेष्ठी गदितः भोः श्रेष्ठिन! तव गृहे रत्नकङ्कतिका वर्तते सा मे राश्यै देहि नो चेबलाद ग्रहीष्यामि । श्रेष्ठी भार्यया निषिद्धः कथमपि दातुं नाङ्गीचक्रे | अथ नृपेण भृशं तदर्थमुपद्रुतः श्रेष्ठी गज्जनपतिहमीराय प्रभूतद्रविणं दत्त्वा तत्साहाय्येन शिलादित्यं पराजितवान् । इत्थं धनमहिमानं विलोक्य भो भव्या ! यूयमपि सर्वापविनाशकं धनं मत्वा तदर्थं निरन्तरं प्रयतध्वम् । षोडशतीर्थकल्पेऽयं प्रबन्धः । अथ ३-कृपणता-विषयेकण कण जिम संचे कीटिका धान्यकेरो, -217
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy