________________
सूक्तमुक्तावली
गिरींश्चक्रुः परं तेषामेकोऽपि तैर्नोपभुक्तः सर्वमत्रैव मुक्त्वा कालचक्रुः । तादृशाः कृपणा इह परत्र च दुःखमेव सहन्ते । अतो धनवद्भिः कृपणैर्नैव भाव्यम् । किन्तु यथा तोयदः स्वार्थनिरपेक्षो जलं वर्षति, तथा सदुपार्जितं धनं सुपात्रादिसप्तक्षेत्रेषु वपनीयम् । तदैव लक्ष्म्याः साफल्यं भवितुमर्हति नान्यथा ||८||
अथ ४ - अर्थ - याचना-विषये
निरमल गुणरागी त्यां लगे लोग राजी, तब लगि लहि जी जी त्यां लगे प्रीति झाझी । सुजन जन सनेही त्यां लगे मित्र तेही, मुख थकि न कहीजे ज्यां लगे देहि देहि
usu यावज्जनो लोभपिशाचवशीभूय निजाभिमानं मुक्त्वा "मां देहि मां देहीति' दीनवचनं मुखान्न निस्सारयति, तावदेव तस्मिन् विद्यमानाः सर्वे निर्मलाः सद्गुणाः सर्वत्र सुशोभन्ते । लोकाश्चाऽपि तमेवातिप्रियवचनेन समालपन्ति समाद्रियन्ते श्लाघन्ते च । पुनर्बान्धवा मित्राण्यपि च तत्रैव जनेऽनुरक्ता जायन्ते । ततोऽखिलगुणापहो याचनादुर्गुणोऽवश्यमेव सर्वैः सज्जनैर्हेय एवेति । किं बहुना ? तस्मिन् याचके येऽतिपरिचिता अपि तेऽपरिचिता इव तेन सह समाचरन्ति । कस्मिंश्चिदवसरे तु याचनभिया ते तन्मुखमपि द्रष्टुं नेहन्ते । अतो ये I गुरुत्वं महत्त्वं लोकमान्यत्वं चाभिलषन्ति ते कदाचित्केषाञ्चित्समक्षेऽतिलघुत्वनिदानं याचनं नैव कुर्युः । यतो याचकाँल्लोकास्तृणादपि लघून् मन्यन्ते । इति हेतोर्दुःस्थत्वेऽपि येन केनोपायेनाऽपि स्वनिर्वाहः करणीयः । परं लघुत्वमूलं परयाचनं नैव कर्त्तव्यमित्येव परमार्थः ||६||
I
-219