________________
सूक्तमुक्तावली पुत्री वदति- हे मातः ! एतस्य षोडशकोटिधनानि त्वया मया च गृहीतानि । तेनैतदन्यस्य कस्यापि सङ्गोन कृतः, सम्प्रति निर्धनत्वेऽपि पुरा दत्ताऽमितद्रविणं भुआनाऽहमेनं कथं त्यजानि ? तत्राऽवसरे साऽक्का प्रकुपिता कयवन्नाश्रेष्ठिनं निर्भय॑ निष्काशितवती ।
अहो! कीदृशः स्वार्थसाधनतत्परो जनस्वभावो यतो यावत्तस्य धनान्यासन् तावत्तं भृशमादृतवती । रिक्ते चार्थे तमेव निर्भर्त्य निरकाशयत्स्वगेहादिति हेतोरर्थ एव जगति सर्वतः श्रेयानस्ति । अर्थश्च दुष्करमपि सुकरायते । धनिनं सर्वो लोक आद्रियते । किञ्चद्रव्यहीनं रामचन्द्रमवेक्ष्य गुरुणापि सोऽनादृतः ।
यथा पुरा वनगमनकाले रामचन्द्रोधर्मबुद्ध्या कुलगुरुं वशिष्टं प्रणमन्तुकामस्तदाश्रममाययौ । शिष्येण तदागमने निवेदिते वशिष्ठ उवाच- कियत्परिवारैरागतोऽस्ति रामचन्द्रः ? शिष्योऽवक-एकाक्येव । तदाकर्ण्य तस्य भाषणदर्शनादिदानं विनैव गुरुर्ध्यानमन्दिरं प्राविशत् । इत्थं तं निर्धनं विदित्वा कुलगुरुरप्युपेक्षितवान् । रामचन्द्रोऽपि तदभिप्राय जानन परावर्तमानोऽग्रे चचाल । अतोऽस्मिन् संसारे लक्ष्मी विना कोऽपि कुत्रापि नैव सत्कृतिं सुकीर्तिञ्च लभते ।
यतो लक्ष्मीपभावोऽप्येवं नीतिशाखे प्रदर्शितःवारांराशिरसौ प्रसूय भयती रत्नाकरत्यं गतो लक्ष्मि ! त्वत्पतिभावमेत्य मुरजिज्जातस्त्रिलोकीपतिः । कन्दो जनचित्तरञ्जन इति त्वन्नन्दनत्वादभूत्, सर्वत्र त्वदनुग्रहप्रणयिनी मन्ये महत्त्वस्थितिः
215