________________
सूक्तमुक्तावली सदुपयोगं कुरुत, यतो निर्धनोऽप्युत्तमकुमारो भवान्तरे सुपात्रदानमदात्तेनाऽत्र भवे महतीं राज्यसमृद्धिं सुखसंपत्तिं च प्राप । अतस्तद्वद् यः प्राणी निष्कामंधनं सुपात्रक्षेत्रे वपति वप्स्यति च स तद्वदेवात्र परत्र सुखी भवति भविष्यति च ।
धन विन कययन्नो जेह वेश्याइ नाख्यो, धन ज विन वशिष्ठे राम जातो न भाख्यो । सुकृत सुजसकारी अर्थ ते ए उपार्जा, कुवणिज उपजन्तो अर्थ ते दूर वा|
॥४॥ भो भो लोका ! इह संसारेऽर्थसञ्चयोऽपि कर्त्तव्य एवास्ति । यतस्तद्विना महतामपि दुःखमेव जायते यथा-कयवन्नानामा श्रेष्ठी यदा द्रव्यहीनोऽभूत्तदा भुक्तभोगया गणिकया हठान्निजालयान्निष्काशितः । रामचन्द्रमपिवनवासगमनसमये कुलगुरुरपि वशिष्ठो निर्धनत्वान्नाऽऽद्रियत । अर्थे सति सुकृतशतमपि कर्तुं शक्नोति । अर्थतः सर्वाण्ययि महान्ति कार्याणि सिध्यन्ति । अतः सर्वैर्धनसङ्ग्रहः कर्तव्य एव ||४||
३- द्रव्यहीनतया वेश्यानिष्कासितस्य कयवल्लाश्रेष्ठिनोः रामचन्द्रस्य च कथा
कश्चित्कृतपृण्यनामा श्रेष्ठी द्वादशवर्षाणि यावद्वेश्यालये स्थित्वा तस्यै षोडशकोटिद्रव्यमदात् । मृते च पितरि निर्धनतामापन्नं कयवन्नाश्रेष्ठिनं ज्ञात्वा साऽक्का गणिकामुवाच-पुत्रि ! निर्धनमेनं मुञ्च । 214