________________
सूक्तमुक्तावली
___ केवली वदति स्म- राजन् ! श्रूयताम-त्वं भवान्तरे हिमालयचूलिकायां सुदत्तनगरे 'कणवी' जातौ धनाभिधो बभूविथ, पुनस्तव चतस्रो भार्या आसन् । पूर्वधनधान्यादिसमृद्धिमानभूः किन्तु पश्चात्पुराकृतकर्मयोगाद्दारित्र्यवाञ्जातः, परमेकदा पथि चौरलुण्टितवस्त्रपात्रादयश्चत्वारः सत्यसाधवस्तत्र नगरे समाजग्मुः । तेभ्यस्त्वं भक्त्या पात्राणि, वस्त्राणि प्रासुकाहारांश्च ददिथ, तव चतसृभिश्च पत्नीभिस्तदनुमोदितं, तेन हेतुनाऽत्र भवे सुसमृद्धिमान् त्वं राजाऽभूः | चतुर्मुनिदानपुण्याद्राज्यचतुष्टयं लब्धं, चतस्रः प्रेयस्योऽप्यभूवन, पञ्चामूल्यरत्नानि मिलितानि। किं बहूक्तेन यानि यानि लोके श्रेष्ठानि वस्तूनि वर्तन्ते तानि सर्वाणि त्वया लब्धानि । परमेतत्सर्वं साधुदानपुण्ययोगादेवाऽत्र भवे लब्धमवेहि। भवान्तरे त्वयैकः कीरः पञ्जरे क्षिप्तस्तेनाऽत्र भवे त्वमपि शुकीभूय पञ्जरेऽवात्सीः, भवान्तरे त्वमेकदा कञ्चन साधुमालोक्याऽसौ मत्स्य इव दुर्गन्धिरस्तीति निन्दितवान् । तदुत्थकर्मयोगादिह जन्मनि त्वमपि समुद्रे पतितश्च मकरेण ग्रस्तोऽभूः । पुनः साऽनङ्गसेना भवान्तरे महासुन्दरी सपत्नी हास्येनाऽनेकधा तद्रूपाधिक्याद् गणिकामचीकथदतः, साप्यस्मिन् भवे वेश्याऽभूत, पूर्वभवपत्नीस्नेहादत्रापि तद्वशोऽजनि ।
इत्याकर्ण्य सञ्जातसंसारवैराग्योऽथोत्तमनृपः पुत्राय राज्यं दत्त्वा तदैव तत्केवलिपार्थे दीक्षामादात् । उग्रं तपश्चरन्नायुषि सम्पूर्ण कालं कृत्वा देवोऽभवत् । ततश्च्युत्वा महाविदेहक्षेत्रेऽवतीर्य कर्माणि क्षपयित्वा मोक्षं लप्स्यते।
भो भो लोका! असारेऽस्मिन्संसारे भवन्तोऽपि स्वस्वद्रव्यस्य
-213