________________
सूक्तमुक्तावली सर्वत्र प्रसार्य बहून्देशान् जिगाय । अथैकदा सिन्धुसौवीरनगराधीशं निजाज्ञामुरीकर्तुं दूतमुखेनोत्तमः क्षितिप इदं न्यगादयत् यथा-यदि मदादेशमुरीकरोषि तर्हि करं देहि नो चेत्समराय समुद्यतो भवेति । यदा तदाज्ञां स नोररीकृतवान् तदा मन्त्रिणं राज्यकार्ये नियुज्य चतुरक्षौहिणी सेनामादायोत्तमनरेशः सिन्धुसौवीरपुरीपरिसरमागत्य तस्थौ । तत्र द्वयोस्तुमुले सङ्गरे प्रवृत्ते निर्जितो वीरसेनो नृप उत्तमकुमाराय राज्यं दत्त्वा सहस्रपुरुषैः सह चारित्रं ललौ ।
तदनु क्रमशः स उत्तमभूपालो वाराणसीमागात् पिता च तदभिमुखमेत्य महता महेन पुरीं प्रावेशयत् । तस्मिन्नेव दिने पुत्रं राज्येऽभिषिच्य मकरध्वजो नृपो दीक्षां ललौ । इत्थमुत्तमनृपस्य चत्वारिंशल्लक्षकोटिग्रामा बभूवुः । चत्वारिंशल्लक्षमिता गजाऽधाश्चाऽऽसन् तावन्तो रथाः पदातयश्च । इत्थं चतुरङ्गबलयुतो प्राज्यं राज्यं न्यायतः परिपालयन् सर्वत्र राज्ये वीतरागस्य दिव्यानि बहूनि चैत्यानि, प्रतिवर्ष रथयात्रामहोत्सवमकरोत् । प्रतिग्रामं दानशालाज्ञानशालादिकं कारयन् शाश्वतमहिंसामयं धर्म पालयन् दीनानुद्धरन् सदैव धर्मकार्ये तत्परोऽवर्तत।
___तत्राऽन्यदोद्याने कश्चित्केवली समायातो, वनपालेन तदागमे निवेदिते तस्मै तुष्टिदानमदादुत्तमनरेशः । तदनु नृपादयः सर्वे पौरास्तं वन्दितुंतत्राऽऽजग्मुः । देशनान्ते राज्ञा पृष्टम्-भगवन् ! भवान्तरे मया किमकारि येनात्र भवे चैतावती समृद्धिराप्ता ? केन कीरत्वमितः ? केन कर्मणाब्धौ पतितः ? केन चाऽनङ्गसेनागणिकायाः वशंवदोऽभूवं तत्प्रकाशं कृपया कथय ।
212