________________
सूक्तमुक्तावली
अथाऽन्यदा सदसि सुखासीनस्योत्तमभूभुजः कश्चिद् दूत एक आगत्य पत्रमेकमार्पयदित्थं तत्र पत्रे लेख आसीत् । यथास्वस्ति श्रीवाराणसीनगरतो लिखति मकरध्वजो राजा निजप्रियपुत्रमुत्तमकुमारं निर्भरमालिङ्गन् तदीयकुशलमीहते ! हे प्रियपुत्र ! त्वयि निर्गते मया तव शुद्धिः सर्वत्र कारिता प्रतिग्रामनगरपर्वतादौ बहुधा मार्गितोऽपि त्वं कुत्रापि न मिलितस्तेन महान्मे खेदोऽवर्तत । परं साम्प्रतं तव शुद्धिमासाद्य हृष्टमनास्त्वां द्रष्टुकामोऽहं त्वामानेतुं सपत्रं दूतं प्रहिणोमि, पत्रं वाचयित्वा सत्वरमत्राऽऽगच्छ। अहमिदानीं वार्धक्याद्राज्यकार्य यथावत्कर्तुं न शक्नोमि, त्वद्वियोगाद्विशेषतः खिन्नमना अस्मि | पल्लीवेलाकूले त्वया राज्यं प्राप्तं, तच्छ्रत्वातिहर्षो जातः । तल्लोभेनाऽत्राऽऽगमने विलम्ब मा कार्षीरिति पितृपत्रं पठित्वा तत्कालं मन्त्रिणमाहूय राज्यभारं तदायत्तीकृत्य पत्नीचतुस्सहितः कतिपयसैन्यादिभिः सहोत्तमनृपो वाराणसी प्रतस्थे, क्रमेण चित्रकूटगिरिमाययौ।
तत्र महासेननृपोवैराग्याद्दीक्षार्थी भवन् पुत्राऽसत्त्वाद्राज्यदानाय कञ्चन योग्यपुरुषमपेक्षमाण आसीत् । स स्वकुलदेवतामारराध, सा तुष्टा सद्यः प्रत्यक्षीभूय तमवक्-प्रभातेऽत्र राज्यधुरन्धर उत्तमभूपाल आगमिष्यति, तस्मै राज्यमिदं दत्त्वाऽऽत्महितं साधनीयम् । ततः प्रभाते तमागतमालोक्य सादरं तस्मै स्वराज्यं दत्त्वा महासेनो राजा श्रीचन्द्रशेखरसूरिनिकटे दीक्षितो भूत्वा सुनियमेन संयम परिपाल्य सुदुस्तरमपि भवाब्धिं त्वरितमेव ततार |
इत उत्तमः क्षितीशस्तत्र कियत्कालं स्थित्वा निजपुण्यप्रताप
211