________________
सूक्तमुक्तावली तदनु जामात्रे राज्यं दत्त्वा संसारादुद्विग्रचेता राजा चारित्रमग्रहीत, तेन सह महेश्वरदत्तादि कियन्तो व्यवहारिणोऽपि दीक्षा ललुः। उत्तमराजश्च न्यायतो राज्यं कुर्वन् प्रेयसीचतसृभिः सह विषयसुख-मनुभवति स्म तत्र नगरे ।
___अथैकदा भ्रमरकेतुर्निमित्तविज्ञमाहूय पप्रच्छ- भो ! मम शत्रुरुत्तमकुमारः सम्प्रति कुत्राऽऽस्ते ? तेनोक्तं- त्वत्पुत्रीसहितः स इदानीं पल्लीवेलाकूले राज्यं करोति । तदाकर्ण्य क्रोधारुणाक्षो भ्रमरकेतुरष्टादशसहस्रसैन्यानि तेन सह योद्धुमेकत्रीचक्रे, परं प्रयाणसमये स दध्यौ- अहो ! कीदृशं निमित्तशास्त्रं ? यत्पुरोदितं नैमित्तिकवचनं सत्यमेवाऽभूत, कुमारसाहसमपि श्लाघ्यं यदेकाकिनैव कूपान्तर्गत्वा मत्पुत्री परिणीता, महामूल्यानि पञ्च रत्नानि जगृहिरे, स चेदानी प्रशस्यो जामाताऽभूत, भवितव्यं केन वार्यते ? यदाहअवश्यं भाविनो भावा, भवन्ति महतामपि । . नग्नत्यं नीलकण्ठस्य, महाहिशयनं हरेः
રા किञ्चललाटे लिखितं यत्तु, षष्ठीजागरवासरे । न हरिः शङ्करो ब्रह्मा, चान्यथाकर्तुमर्हति
इति पूज्येन महीयसा तेन जामात्रा सह सङ्गरो मे त्रपाकर एव भविष्यति । लोके हि महता प्रयत्नेनापि कदाचिदेवेदृशो जामाता प्राप्यते । मम त्वभिमत एवैषोऽभूदतो हर्षस्थाने विषादो न घटते । इत्थं विमृशन् प्रशान्तक्रोधरयः स हृष्टस्सन् कुमारनगरमागत्य पुत्रीं जामातरञ्च मिलित्वा कियन्ति दिनानि तत्र स्थित्वा पुनर्भमकेतू राक्षसराजः स्वपुरमागात् । 210