________________
सूक्तमुक्तावली ततः पुनः सूत्रं बद्ध्वा कीरं कुरुते पुनरुड्डयनशङ्कया तं पिञ्जरे स्थापयति ।
इत्थं तत्कृत-कीरत्वमापन्नः सोऽहमुत्तमकुमारो दध्यौ- मया भवान्तरे कीदृशं कर्माऽकारि येनाऽत्र भवे नरो भूत्वापि पक्षित्वं यातोऽस्मि । तथा राक्षसराजपुत्रीं महालसां छन्नं परिणीतवान् । इत्याद्यघटिताऽऽचरणयोगादिदानीमीदृग्दुःखमन्वभूवम् । को जानाति पुनर्भवान्तरे कां गतिमेष्यामीति विमृशन्मासमेकमनङ्गसेनावेश्यालये तिष्ठन्नद्य पिञ्जराबहिर्मुक्त्वा कुत्राप्यन्यत्र गतां तां दृष्ट्वा पटहनादमाकलय्य तत उड्डीय पटहमहं स्पृष्टवानस्मि ।
_ तच्छ्रुत्वा राज्ञा तत्पदः सूत्रे मोचिते स्वरूपं प्रपन्नः कुमारः प्रादुरासीत्, नृपाद्याः सर्वे लोकाः प्रमोदमापुः । तस्मिन्नवसरे महेश्वरदत्तः श्रेष्ठी नैमित्तिकप्रोक्तदिने मिलिते निजप्रतिज्ञाप्रतिपालनाय कुमारेण सह सहस्रकलां पुत्रीं महता महेन विवाहितवान् । करमोचनसमये प्रचुरंधनादिकंप्रादात, तदनुमहालसात्रिलोचना-सहस्रकलाङ्गसेनाभिश्चतसृभिः पत्नीभिर्भोगं भुञ्जानः कुमारः सुखेन कालं गमयति स्म ।
ततो राजा तां चपलमालाकारीमाकार्य तत्सर्वमपृच्छत् । तयोक्तम्- राजन् ! समुद्रदत्तः श्रेष्ठी कुमारमारणाय पञ्चशतदीनारदानलोभंप्रदर्श्य मया तत्र पुष्पकदम्बके सर्प स्थापितवान, लोभान्धीभूतया मयैतन्महापापं कृतं, तन्निशम्य राजाऽधिकं चुकोप । तयोर्द्वयोश्च शूलिकारोपणमादिशत्परं दयालुरुत्तमकुमारो राजानं भृशमनुनीय तौ तस्मादमोचयत् । पश्चाद्राजा तयोः सर्वस्वं गृहीत्वा देशान्निष्काशितवान् ।
-209