________________
सूक्तमुक्तावली सज्जीचक्रे पश्चात्तेन सह सोऽत्र नगरे समायातः । ततो नैमित्तिकवचनाद्राजा तस्मै त्रिलोचनां पुत्रीं विवाहविधिना दत्तवान् । तया सह सुखेनाऽत्र सप्तभौमभवने निवसितवान् । सोऽन्यदा मध्याह्ने समीपस्थचैत्ये पूजायै गतस्तत्र जिनेन्द्रं पूजयन् सर्पण दष्टोऽचेतनोऽभवत् । अहिश्च तत्रत्यपुष्पराशिमध्ये तस्थौ, इत्थं महालसोत्तमकुमारयोः सम्बन्धं निगद्य कीरोऽवदत् ।
मया सर्वं कथितं ततो मे राज्यं कन्याचाऽर्पय निजं वचनं सत्यं नय । तच्छ्रुत्वा राजा मनसि शुशोचपक्षिणे राज्यं कथं दीयते? तदा किञ्चिन्मौनीभूय कीरः कथयति- राजन् ! दीयतां राज्यम् । यदहं तदनुभवामि राजा च तदा शून्यचेताः किं कर्त्तव्यतामूढोऽभवत् । पक्षी पुनः कथयति- स्वामिन् ! मम का हानिः ? तवैव वचनं याति । अहं सदैव वने सुखमनुभवामि सर्वदा नवनवफलमश्नामि मया तु त्वत्परीक्षा कृतास्ति ।
इत्थं कीरोदितं निशम्य तं स्वहस्ते निधाय पाणिना तदङ्गं संस्पृशन्नृपोऽवादीत्- हे कीरराज ! ते राज्यं दास्यामि । चिन्तां मा कृथाः, परं शिष्टवचनं कथय यत्कुत्र कुमारस्तिष्ठति, सुखी वा दुःखी वा जीवति कदा ? कथं मिलिष्यतीति ? तदा पुनः कीरो वदति- राजन् ! निशम्यतामग्रे यदभूत्तत्कथयामि-सर्पदंशनानन्तरं तत्रैकाकिनी गणिकाऽऽगता मदनमिव रूपलावण्यवन्तं कुमारञ्चाऽऽलोक्य तदनुरागिणी बभूव । पश्चात्सा निजकरस्थितां विषापहारिणी मणिरत्नमयीं मुद्रिका प्रक्षाल्य तदङ्गमसिञ्चत् तत्क्षणञ्च विषमुक्तः कुमार उदतिष्ठत् तदैव सा गणिका कुमारं निज-भवनमानीतवती ।
-207