________________
सूक्तमुक्तावली
तदैव तस्मै राज्यं समर्प्य प्रव्रजिष्यामि ।
ततो नृपो महेश्वरदत्तश्रेष्ठिनं समाहूय तेन सह सर्वं विमृश्य नगरे पटहमवीवदत् यथा- "यो हि त्रिलोचनाभर्तुः शुद्धिं महालसाया मूलतत्त्वं निगदिष्यति तस्मै राज्यं श्रेष्ठिनः पुत्रीं सहस्रकलाञ्च दास्यामीति ।"
अथ दैवज्ञकथितविवाहदिवसे चैकः कीरः पटहं स्पृशन् नृभाषया राजपुरुषमवादीत्- भो ! अहं नृपं सर्वं कथयिष्यामि कथिते च तयोर्लाभो मे स्यात्, अहो ! ममापि भाग्यमुद्बभूव । कीरवाचमीदृशीमाश्चर्यजननीमाकर्ण्य ते तं नृपान्तिकं निन्युः । तदा कीरो राजानमवक्- राजन् ! अहं त्रैकालिकज्ञानवानस्मि । अत्र सदसि त्रिलोचनां महालसाञ्चाऽऽनीय वसनादिना व्यवहितां स्थापय तदा सर्वमामूलं गदिष्यामि राजापि तथैवाऽकरोत् । कीरो विचारयति - राज्येन मे प्रयोजनं नास्ति परं महालसायास्तत्त्वं कथनीयमस्ति । इति ध्यात्वा कीरो वदति - राजन् ! निशम्यतां यथा
वाराणसीनगरीनाथस्य ज्यायान् पुत्र उत्तमकुमारो देशाटनचिकीर्षया समुद्रे महापोतमारुरोह । तदनु सागरे व्रजन् तत्र जलकान्तगिरौ कूपान्तरुत्ततार । तत्र राक्षसराजस्य लङ्केशभ्रमरकेतोः पुत्रीमुदवोढ । तदनु पत्नीयुतः स कूपान्निर्गत्य समुद्रदत्तव्यापारिणः पोते समुपाविशत् तत्र च लोकान् पञ्चरत्नप्रभावादन्नवस्त्रजलैः सुखिनश्चक्रे । ततः स्त्रीधनलिप्सया समुद्रदत्तः कुमारं सागरेऽक्षिपत् तत्र तं महामीनो निगिरति स्म । तं मीनं जालेन गृहीत्वा गृहमानीय कश्चिद्धीवरस्तदुदरं विददार, तत्र च कुमारमपश्यत् । स तमुपचारेण
206