________________
सूक्तमुक्तावली सा भृशं शोकमकरोत् ।
तदानीं तत्र नगरे महेश्वरदत्तनामा व्यवहारी षट्पञ्चाशत्कोटिद्रव्यनायकोऽस्ति । तस्य द्वीपान्तरं गत्वा क्रयविक्रयार्थं पञ्चशतप्रवहणानि सन्ति, पञ्चशतानि शकटानि वर्तन्ते, गृहाणां पञ्चशती, तावन्ति हट्टानि विद्यन्ते, तथाधान्यानांसदनानि पञ्चशतानि, गोकुलानि पञ्चशतानि, पञ्चशतगजास्तावन्तस्तुरगाः, पञ्चलक्षसेवकाः, परमेतावत्सम्पत्तिमतोऽप्यस्य पुत्रो नाऽऽसीत् । बहुधा यतमानस्य तस्यैका पुत्री जाता | सा शशिकलेव सकलजननयनयोरानन्ददात्री, सहस्रकलानाम्नी, सदध्यापकेन सम्यक् पाठिता, चतुष्षष्टिकलाकुशला, शैशवात्परं वयःप्रपन्नास्ति, कस्मैचिद्योग्यवराय तां दत्त्वा संसारविमुखः श्रेष्ठी चारित्रं जिघृक्षति स चैकदा नैमित्तिकमाहूयाऽपृच्छत् ।
भो निमित्तज्ञ! मम पुत्र्याः को भर्ता भविष्यतीति ? तेनोक्तमद्यतनदिनात् त्रिंशत्तमे दिवसे तव पुत्र्या वरो मिलिष्यति स सार्वभौमो भविष्यति । तदुक्तदिनावधारणं सत्यं मन्यमानः स पुत्र्या लगृसामग्री सकलां सज्जीकृत्य महामहं वितनुते । विस्तृते सुरचिते मण्डपे मङ्गलगीतं प्रावर्तत, तथा करमोचनकालिकजामातृप्रदानार्थ गजतुरगरथदासदासीवसनाभरणादिसर्वमपि सज्जीचक्रे । एतत्सकले पुरे प्रख्यातमस्ति तेन सर्वेषामाश्चर्य लगति यद्वरं विना विवाहसामग्रीमखिलामसौ श्रेष्ठी सज्जयामास | इतोऽन्यदाश्चर्यं किं स्यात् ? राजाप्येतत्स्वरूपं ज्ञात्वा चकितोऽस्ति । स्वयं महेश्वरदत्तः श्रेष्ठी कन्यां विवाह्य दीक्षाजिघृक्षांधत्ते । तेन तस्मै धन्यवादमपि नृपो ददानो विचारयति संसारविमुखीभूत- अहो ! यदा जामाता मे मिलिष्यति
-205