________________
सूक्तमुक्तावली त्रिलोचनायै समर्प्य संसारसागरतरीं दीक्षामेव ग्रहीतुमिच्छामि । तदा दासी जगाद- हे स्वामिनि ! एवं त्वरां मा कुरु । मया श्रूयते राज्ञा त्रिलोचनापुत्री केनचिद्वैदेशिकेन सर्वगुणाकरेण रूपलावण्यवता परिणायिता, को जानाति तवैव भर्ता सो भवेत ? इति तवाऽऽदेशेन तं द्रष्टुमिच्छामि ।
तदा दासी तदादेशं लात्वा, त्रिलोचनान्तिकमागत्य, तया सहाऽऽलप्य कुमारं किञ्चिदभिलक्ष्य च समागता तस्यै कथयति-हे स्वामिनि ! सोऽपि त्वत्प्राणेश्वरसदृश एव लक्ष्यते, परंतु स एवेति मया निश्चेतुं न शक्यते । तदाकर्ण्य महालसाऽवक्- धिग्मां यत्परपुरुषरागोऽभूत् । अतोऽहं पापिनी जाता, ततः पुनर्वैराग्यमापन्ना धर्मकृत्ये प्रयताभूत् ।
इतो दासीगमनानन्तरं कुमारस्त्रिलोचनामपृच्छत् - अयि प्रेयसि ! सा वृद्धा का ? या त्वयाऽऽलापिता । तयोक्तम् - हे नाथ ! शृणु काचिन्महालसानाम्नी वैदेशिकी युवती गुणवती महारूपवत्यपि निरन्तरं धर्मतत्परा मद्गृहे तिष्ठति, सा भगिनीत्युच्यते मया, तस्या विचक्षणा दासी साऽऽसीत् । इत्याकर्ण्य कुमारः स्वमनसि शशङ्के सा किं मम दयिता तु नास्ति ? अहो ! कोऽयं मे व्यामोहः ? तस्या अत्र कः संभवः ? इत्यालोच्य मनसि खेदमावहन स्वात्मानं निनिन्द ।
अथान्यदा स समीपवर्तिनि चैत्ये भगवन्तं पूजयितुं गतः । कियत्कालानन्तरमनागतं तं वीक्ष्य तस्य शोधनार्थं दासीमप्रैषीत् त्रिलोचना । दासी समागत्य तत्र सर्वत्र तच्छुद्धिमकरोत् परं कुत्रापि स नैव दृष्टः । पश्चादागत्य त्रिलोचनां तदकथयत्, तदनु पतिमलभमाना
204