________________
सूक्तमुक्तावली नगरे समाययौ । तत्रावसरे नरवर्मनृपो निजपुत्रीकृते क्रियमाणं सप्तभौमिकमुत्तमं प्रासादं द्रष्टुं तत्राऽऽगत्य तदीयशिखरासीनः पुरकौतुकं वीक्षते । तत्र निपुणास्तक्षाणः कार्यं कुर्वन्ति । कुमारोऽपि तत्र गत्वा स्वचातुर्यमदर्शयत तेन च सर्वे कारुवराश्चमत्कृता अभूवन। सर्वे किमसौ विश्वकर्मेति विदाञ्चक्रुः? कुमारस्तत्प्रार्थनया तत्रैव तस्थौ । धीवरश्च पश्चाद् गतः ।
पुनरन्यदा चित्रादिभिः सज्जिते तत्र प्रासादे नृपादयः सर्वे द्रष्टुमाजग्मुः- तदोत्तमकुमारस्य रूपादिकं विलोक्य नृपो मनस्यचिन्तयत् । असौ रूपेण, गुणेन, व्यवहारेण च कश्चिदुत्तमकुलवान् लक्ष्यते । सत्कुलं विना किलेदृशं रूपादिकं कथं संभाव्यते ? अतोऽसौ कश्चित्सवंशजात एवेति मनसाऽवधार्य स नृपो नैमित्तिकमप्राक्षीत् । यथा- भो ! मम पुत्र्या भर्ता को भावीति विचार्य ब्रूहि? तेनोक्तं- राजन्! कश्चिद्वैदेशिकः सकलकलाकुशलो महाभाग्यशाली त्रिलोचनाभर्ता भविष्यति । ततः शुभदिने शुभमुहूर्ते राजा त्रिलोचनामुत्तमकुमारेण सह महता महेन परिणाय्य तस्मै धनधान्यादिसहितं तदेव सप्तभौमिकं प्रासादमदात् । तत्र कुमारः प्रेयस्या सह सुखमनुभवन्नास्ते ।
इतश्चैकदा महालसा दासीमवादीत्- भो दासि ! अद्यावधि मम भर्तुः शुद्धिर्न जाता, तेनाऽनुमीयते यत्स सागरे त्यक्तासुरभूत् । अतो मे जीवितेनाऽलम्, किन्तु रत्नप्रसादेन वीतरागस्य मन्दिरं स्वामिवात्सल्यञ्चाऽकार्षम् । बहूनि ज्ञानपुस्तकानि लेखितानि, दानादिकमकारि, किमपि नाऽवशिष्यते । अतः परमेतद्धनादिकं
-203