SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली ऽस्मि मार्गे चेयं स्त्री लब्धा । श्रीमतामादेशेनैनामहं भायां चिकीर्षामि । तन्निशम्य महालसा राजानमेवं विज्ञप्तवती- राजन् ! असौ महापापी धूर्तराट् सर्वमलीकमेव निगदति । असौ मम भर्तारं सागरान्तरमपातयदित्येतस्य चाण्डालस्य मुखदर्शनादपि पापं लगति । अतो दुष्टस्यास्य मुखं नैवाऽवलोकनीयम्। इति तद्वचनमाकर्ण्य तदुपरि भृशं प्रकुपितो नृपस्तस्य पञ्चशतपोतान् जग्राह | तञ्च कारागारेऽस्थापयत् महालसाञ्च राजाऽवक्- हे वत्से ! पुत्रीवत्त्वं मम गृहे सम्यक्तया सुखेन तिष्ठ | तदनु नृपप्रदत्तावासे तिष्ठन्ती रत्नप्रभावात्प्रत्यहं धनधान्यसुवर्णादि निराधारेभ्यो जनेभ्यश्च ददती कालं यापयति । अहर्निशं स्वधर्मतत्परा प्रत्यहं जिनेन्द्रमर्चति, प्रासुकाऽऽहारवस्त्रादि सुबुद्ध्या सुपात्रेभ्यो दानं प्रयच्छति, पुनरनुकम्पया दीनानुपकरोति,शरीरपुष्टिकरमाहारमेकमपि न गलाति भूमावेव शेते । स्नानमुत्तमवस्त्राऽऽभरणादिकं त्यजन्ती शरीरंसुगन्धिद्रव्यैर्न विलिम्पति, ताम्बूललवङ्गैलादिसर्वमत्यजत् । सकलंशाकदधिदुग्धशर्करादिमिष्टपदार्थ सा जहौ । सदैवं नीरसं लब्धाहारं सकृदेव भुङ्क्ते, महत्कार्यं विना कदापि बहिर्न याति, गवाक्षवीक्षणमट्टालिकोपवेशनं न विधत्ते । विवाहाद्युत्सवे कुत्रापि न गच्छति । सख्या सह शृङ्गारवार्तामपि न कुरुते । दासदास्यादिभिः सह कार्य विना किमपि नाऽऽचष्टे | सदैव वैराग्यमेव विचिन्तयति, इत्थं नानाविधधर्मकृत्यैर्महालसा कालंगमयति स्म। इतश्चोत्तमकुमारस्तेन धीवरेण सह कस्मैचित्कार्याय तत्रैव 202
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy