________________
सूक्तमुक्तावली पृथिवीनामरत्नं परिपूज्य धान्यस्थानेऽस्थापयत्, ततो धान्यराशिस्तत्प्रभावाज्जज्ञे । ईदृशोपकुर्वन्तमुत्तमकुमारं प्रशस्य समस्ता अपि पुरुषास्तदादेशवर्तिनोऽभूवन् । पोतनायकः समुद्रदत्तश्च रम्भोपमा महालसा तानि दिव्यरत्नानि च विलोक्य नितान्तं तदर्थ लुलुमे ।
तत एकदा नरकादप्यबिभ्यत् समुद्रदत्तः सत्यवसरे कुमारं सागरेऽपातयत् तदा सर्वे दुःखमापुः । महालसापि तद्वियोगजं दुःखमसहिष्णुस्तदैव मर्तुकामाभूत् । तदा सख्या भणिता- हे स्वामिनि! मा म्रियस्व, बालमरणेन दुर्गतिरेव जायते, यतः शास्त्रेऽपि तन्निषिद्धमस्ति । अत इदानीं शीलरक्षार्थ केनाप्युपायेनाऽसौ पापीयान् वञ्चनीयः । अग्रे च रत्नप्रभावेणाऽभीष्टं सेत्स्यति भऽपि च तेऽवश्यं समेष्यति । नो चेदन्ते चारित्रं लात्वाऽऽत्मसाधनं विधातव्यमिति वयस्योक्तं साधु मत्वा सा तथैवाऽकरोत् ।
इतस्तमुत्तमकुमारं तत्र सागरे कश्चिन्महाकायो मत्स्योऽगिलत् । ततस्तटागतं तं धीवरो जाले गृहीत्वा विददार, तदुदरादुत्तमकुमारो जीवन्नप्यचेतनो निरगादं, धीवर उपचारेण कुमार सज्जीचक्रे ।
महालसाऽपि वायुरत्नप्रभावादिनद्वयेनैव पल्लीनामबन्दरे पोतस्थितिस्थानमागात् तत्र च जैनधर्मी नरवर्मनामा राजास्ति । समुद्रदत्तव्यापारी महार्हरत्नभृतस्थालमादाय महालसया सह नृपान्तिकमागत्य तञ्च नमस्कृत्य तत्स्थालकमुपदीचक्रे | राज्ञा च कुशलप्रश्नानन्तरमुक्तम्- भोः श्रेष्ठिन् ! तव को देशः ? कस्माद् द्वीपादिहागतोऽसि? तत्कथय । तेनोक्तम्- स्वामिन् ! चन्द्रद्वीपादागतो
-201