________________
सूक्तमुक्तावली इत्थं निगद्य सा यावद्विरराम, तावत्तत्र महालसाप्याऽऽययौ । तदनुसा कुमारदर्शनादतितरांकामुकी भूता। तत्रावसरेद्वयोर्मियोऽनुरागं ज्ञात्वा वृद्धा स्त्री तदैव तयोर्गान्धर्वविधिना विवाहमकरोत् । तदा दास्या रत्नकरण्डकमानाय्य दासीसहिता कुमारेण सह कूपोपकण्ठमागात् । तत्रावसरे कियन्तः पोतयायिनो लोका उपरिस्थितास्तान वीक्ष्य रज्ज्वा कूपादूर्ध्वं नीतवन्तः । तस्मिन् समये तौ दृष्ट्वा किमिदं देवयुगलं विद्याधरयुगलं वेत्यादि शशङ्किरे ?
ततः कुमारस्तया सह तत्र पोते समागत्य पुरश्चचाल | कियदिनानन्तरं पुनरपि तत्र महापोते व्ययितेषु पानीयेषु सर्वे तृषापीडिताश्चिन्तामापुः । तदा तानतिदुःखितानालोक्य महालसा प्राणेशमेतदूचे-हे कान्त! ममैतत्करण्डके पितृप्रदत्तानि दिव्यानि पञ्च रत्नानि सन्ति । तेष्वेकं पृथिवीरत्नं पूजितं नानाविधमन्नं मणिकनकरत्नमयभाजनं प्रयच्छति। द्वितीयंजलरत्नं पूजितं सद्वाञ्छितमतिमिष्टं वारि वर्षति । तृतीयं वह्निरत्नमस्ति तत्प्रभावात् सूर्यपाकं रसवद्यथेष्टं भोज्यं लभ्यते । चतुर्थं वायुरत्नमस्ति, तेन पूजितेन ग्रीष्मार्तिरुपशाम्यति मनोऽनुकूलञ्च वायुति | पुनरेवमेव पञ्चमे रत्ने पूजिते यथेच्छदेवदूष्यवसनानि लभ्यन्ते । ईदृशेषु पञ्चरत्नेषु सत्सु लोकोपकारः क्रियताम्।
इति प्रेयसीनिगदितमाकलयन्प्रमोदमानः कुमारस्तदैव जलरत्नं संपूज्य पोतस्तम्मे न्यबध्नात् । तदा तत्क्षणमेव जलवृष्टिरजायत लोकाश्च तैर्जलैः स्वस्वपात्राण्यपूरयन्,मुदितालोकाः कुमारंप्रशशंसुः । कियत्कालानन्तरं तत्र पोतेऽन्नमपि क्षीणमभूत् । तदा लोकानन्नविकलानालोक्य
200