________________
सूक्तमुक्तावली प्रासादमालोक्य तद्द्वारि वृद्धका स्त्री दृष्टा । तत्रान्तिकमागतं कुमारं साऽवादीत्-हे भाग्यमुक्त ! त्वं कोऽसि ? राक्षसेन्द्रं भ्रमरकेतुं किं न जानासि, यदत्राऽऽगतोऽसि ? तदुक्तमाकर्ण्य कुमारो जगाद-भो वृद्धे ! तमहं जानामि, संग्रामे च तं जित्वाऽत्राऽऽगतोऽस्मि त्वङ्कासि ? कस्य चाऽयं प्रासादोऽस्ति? तद्वद |
तदुक्तमेवं निशम्य वृद्धा वदति-हे धीर ! वीर ! श्रूयताम, सर्व त्वां कथयामि । इह राक्षसद्वीपे लङ्कानामनगर्यस्ति, तत्र भ्रमरकेतुनामा राजाऽस्ति, तत्पुत्री महालसानाम्नी महासुन्दरी चतुश्षष्टिकलानिपुणा वर्तते । कदाचित्स निमित्तज्ञमपृच्छत्-भो नैमित्तिक ! ममैतस्याः पुत्र्या वोढा को भविता? इति पृष्टे, तेनोक्तम्- भूचारी उत्तमकुमारस्ते पुत्रीं परिणेष्यति । स राजराजेश्वरोऽनेकविद्याधरकुलस्य सेव्यो भविष्यति । तदाकर्ण्य स भृशं खेदमकरोत् । यन्मे राक्षसस्य सुताया मनुष्यो भर्ता स्यादेतदयोग्यमिति हेतोरत्रैतद्वने पञ्चरत्नानि दिव्यानि दत्त्वा मया सह तां पुत्रीमतिष्ठिपत् । अन्यदा तदर्थं किमप्याऽऽनीय समायान्ती दासी कूपेऽस्मिन्नपतत् । ततस्तेनेदृशं जालकं कूपे जलोपरि दत्तवान् । ____ अथैकदा पुनरसौतमेव नैमित्तिकमपृच्छत्-भोः कथय मत्पुत्रीं कः परिणेष्यतीति ? तेनोक्तम्-क्षत्रियो भूचर उत्तमकुमारः । पुनरपृच्छत्तत्र कमपि दृष्टान्तं (चिह्न) गदितुं शक्यते चेद्वद ? तेनोक्तं शृणु-स हि पोतमारुह्य समुद्रे गच्छन् सर्वेषां भीतिप्रदं त्वां युद्धे विजित्य लोकानभयान विधास्यति । इति नैमित्तिकभाषितं श्रुत्वा चिन्तातुर इतस्ततः पर्यटन कालं गमयति ।
- 199