________________
सूक्तमुक्तावली तदा दयासिन्धुः स उत्तमकुमारः पोतादवतीर्य कूपस्थानमागतस्तत्र कूपे डोरकं पातयन जलार्थिनो भयाद्दूरे स्थितान् लोकानवोचत्-भो लोका ! आगच्छत जलमाहरत यतो मयि सति राक्षसः कमपि पराभवितुं नो शक्ष्यति। तदनु स तद्राक्षसेन्द्रसमीप-. मुपाविशत्, तदालोक्याऽन्येऽपि पात्रहस्तास्तत्राऽऽययुः । ते सर्वे कूपे गुणं पातयामासुः परमञ्जलिमात्रमपि जलं केऽपि नाऽऽददुः ।
तत्रावसरे कुमारश्चिन्तयति-अहो! जलं दृश्यते परं पात्रे कथं नाऽऽगच्छति ? एते च तृषाकुलाः पीड्यन्ते । अतोऽत्र केनापि कारणेन भवितव्यम, लोकाश्च कूपान्तः पश्यन्तः स्वान्ते राक्षसभीतिमावहन्ति । तदा पोताधिपेनोक्तम्-कोऽप्येतदन्तः प्रविश्य जलानि समानेतुं शक्नोति? परं राक्षसभीत्या कोऽपि तदा नाऽवदत् सर्वे मौनमाजग्मुः।
तदा वीरशिरोमणिः परमसाहसिकः परोपकरिष्णुः कुमारो लोकैर्निवारितोऽपि परदुःखमसहिष्णुस्वभावतया गुणं दृढं बद्ध्वा तदवलम्बनतः कूपान्तर्ययौ तत्र च जलोपरि स्वर्णजालकमपश्यत् । तद् वीक्ष्य दध्यौ- अहो ! ईदृशं जालकं कुत्रापि न दृष्टं न श्रुतम् । अत्रापि कोऽपि हेतुरस्ति । तदनुस बलेन जालकमत्रोटयत्ततो जलं सर्वे यथेष्टं नीतवन्तः, सर्वे तुष्टुवुश्च कुमारसाहसम् । अत्रापि भाग्यं परीक्ष्यमिति ध्यात्वा कौतुकी स इतस्ततः पश्यन् कूपभित्त्येकमागे समुन्नतमेकं जालकं पुनर्ददर्श, तदन्तश्च स्वर्णमयसुरत्नजटितसोपानपङ्क्तिरालोकि ।
ततस्तेन कुमारेण तज्जालकान्तः प्रविश्यागे गच्छता दिव्यमेकं
198