________________
सूक्तमुक्तावली अतो हे जीव ! तव धर्म एव सर्वत्र समुपकर्तास्ति, नान्यः कोऽपि, इत्येवं विचिन्तयन् फलादिनाऽऽत्मानं पोषयन् पुरश्चचाल ।
मार्गे च मदनमूर्तिमिव तमुत्तमकुमारमालोक्य तद्द्वीपदेवी तत्क्षणंषोडशशृङ्गारसज्जिता, हावभावादिकं कुर्वती परितः कटाक्षयन्ती मदनशरजालपीडिताङ्गी तदभिमुखी बभूव । तदने तज्जिगीषया प्रथमं कामराजस्य सामन्तभूतभ्रमरायितकटाक्षविशिखान्मुमोच | तदनु स्मितजितशरदिन्दुवदनविनिर्गतवाग्बाणवृष्टिमकरोत् । ततः कन्दर्पराजस्य प्रयाणसमये हृदयभूधरोपरि तत्सैन्यभेरीमिव स्तनकमलकोरकमदर्शयत् । इत्थं बहुभिर्युवजनमोहनकरैर्हावैर्भावैश्च मोहितोऽपि स मेरुवन्निश्चल एवादर्शि | वशीकृतात्मनां राजादयोऽपि मनागप्यनिष्टं कर्तुं न प्रभवन्ति । यतःयस्य हस्तौ च पादौ च, जिद्दा चाऽपि सुयन्त्रिता ।। इन्द्रियाणि सुगुप्तानि, रुष्टो राजा करोति किम् ? ॥२॥
ततस्संतुष्टा सा तं संस्तुवती तद्ग्रे सार्धद्वादशकोटिस्वर्णवृष्टिं विधाय निजस्थानमयात् । कुमारोऽप्यग्रे गच्छन् समुद्रद्रत्तव्यापारिणः पोतमपश्यत् । स उत्तमकुमारं सादरं निजपोतमारोहयत्। कियद्दिनानन्तरंतस्मिन्नपि जलव्यये सर्वे लोकास्तृषाकुलाश्चिन्तामापुः । तत्राऽवसरे तत्रस्थनियामकः शास्त्रमवलोक्य जगाद- मिष्टवारिपूर्णः कूपोऽत्र पर्वते विद्यते, परंततोजलाहरणमतिकठिनमस्ति । पुनरत्र भ्रमरकेतुनामा राक्षसेन्द्रो जनान् हिनस्तीति श्रुतं मया । इतोऽन्यत्र कुत्रापि समीपे मिष्टं वारि नास्तीत्यत्रैव पोतः स्थाप्यताम् । इत्युदीर्य पोतः स्थापितस्तदा राक्षसभीत्या केऽपि तस्मादुत्तीर्य जलान्यानेतुं नोत्सेहिरे |
- 197