________________
सूक्तमुक्तावली करिष्यामीति निगद्य ततोऽग्रेऽचलत् ।
अथानुक्रमेण स भृगुकच्छनगरमागत्य नगरश्रियं पश्यन मुनिसुव्रतस्वामिचैत्यमालोकितवान् । तत्रान्तः प्रविश्य भक्त्या प्रभु नमस्कृत्य यथाविधि संस्तुत्य बहिरागतः । तत्रैव कस्यचिन्मुखादशृणोत्यदेतन्नगर-श्रेष्ठी कुबेरदत्तनामा पोतव्यापारी क्रेयवस्तुभिः पोतं भृत्वाऽष्टादशशतयोजनात्परं मुग्धंद्वीपं जिगमिषति । तत उत्तमकुमारस्तदन्तिकं गत्वा भाटकं निर्णीय तेन सह तत्राऽगच्छत्, ततः पोतः समुद्रमार्गेण चचाल।
अथ कियदिनानन्तरंसमानीतजलनिःशेषे सर्वे तृषाकुलाश्चिन्तामापुः । तदा द्वीपान्तरं मिष्टानि जलानि लातुमागताः सर्वे । तत्र ते जलानि ललुः पश्चात्तत्र भ्रमरकेतुराजो राक्षससैन्यसमाकुलस्तत्राऽऽगत्य कियतो लोकान् पादतलैरपीलयत्, कियतो जनान् निजकच्छेऽग्रहीत, कियतो निजपाणिभ्यां जग्राह । तदीत्या कियन्तो लोकाः पोतान्तर्नेशुरित्यादि लोककदर्थनमालोक्य स धीरः सत्यवादी दयालुस्तं राक्षसराजमवादीत्- भो राक्षसेन्द्र! दीनान् किं कदथर्यसि ? यदि युयुत्ससि तर्हि मया सह युध्यस्वेत्युदीरयन् कुमारस्तेन सह भृशं युद्ध्वा तं पराजितवान् । स यावत्तेन सह युध्यमानो दूरं गतस्तावत् स श्रेष्ठी निजपोतमचालयत् ।
तत्राऽऽगत्य पोतमपश्यन्नेवं व्यचिन्तयत्-अहो! लोकस्थितिः कीदृशी वर्त्तते ? यानहं तस्मादरक्षं तेऽत्रैव मां मुक्त्वा गताः | जगति सर्वे स्वार्थलम्पटा एवाथ वा कोऽपि कस्यापीष्टमनिष्टं वा कर्तुं न शक्नोति । यदैवं समीहते तदेव भवति, कृतं कर्म भोगेनैव क्षयं याति ।
196