________________
सूक्तमुक्तावली २-अथ संपदाऽऽप्तसुखस्योत्तमकुमारस्य
दृष्टान्तःवाराणसीनगर्यां मकरध्वजो राजाऽस्ति तत्पत्नी लक्ष्मीवती विद्यते। तयोः पुत्रः शीलवान् सत्यवक्ता दयालुायनिपुणः स्वधर्मतत्परः परदाराविमुखः सन्तोषी देवगुरुभक्तिकरो धर्मानुरागी परोपकर्ता द्विसप्ततिकलाकौशलवान नाम्नोत्तमकुमारोऽस्ति ।
स चैकदा देशान्तरं निजभाग्यपरीक्षायै निरगात्ततोऽनेकनगरग्राम-पट्टणादिकौतुकं पश्यन् चित्रकूट-गिरिमागच्छत् । तत्रत्यनृपस्य महासेनस्य मेवाड-मालव मरुदेश-सौराष्ट्र-कर्णाटकप्रमुखदेशाधिपस्य निरपत्यत्व-समुत्पन्नवैराग्यस्य कस्मैचिद्योग्याय सत्पुरुषाय गुणशालिने राज्यं दत्त्वाऽऽत्मसाधनाय दीक्षाजिघृक्षा समुत्पेदे ।
अथैवं चिन्तयन् स राजा नवमश्वमारुह्य पथि गच्छन् तुरगगतिमान्द्यं प्रधानमपृच्छत्-तदा तत्रस्थः स उत्तमकुमार ऊचेभो राजन् ! एष घोटको महिषीक्षीरमपिबदतो मन्दगतिरेतस्यास्ति । तद्वच आकर्ण्य राजा तमपृच्छत्-भो वत्स ! त्वयैतत्कथमवेदि ? तेनोक्तम्-राजन् ! अश्वविद्यां जानामि | तदा नृपोऽवक्-त्वदुक्तं सत्यमस्ति शैशवे मृतमातृकोऽसौ महिष्याः क्षीरं पपौ । पुनरुक्तम्-हे सौम्य ! त्वं कोऽसि ? कुत्र ते वसतिर्विद्यते ? तदोत्तमकुमारो नृपस्य यथोचितं प्रश्नोत्तरमदात् । नृपो नूनमसौ कोऽपि राजकुमारोऽस्तीति मत्वा तमेवमवदत्-हे सौम्य ! त्वं ममेदं राज्यं गृहाण | यतोऽहं संसारादुद्विग्नोऽस्मि, तेनोक्तं हे पितः ! त्वदुक्तं सत्यमस्ति, परं ममेदानीमनेकदेशाटन-चिकीर्षवाऽस्ति पश्चाद्यथा कथयिष्यसि तथा
- 195