SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली समकिति सतयंता श्रावका ते प्रशंस्या ॥६॥ किंञ्च, शुद्धमनसा दिवानिशं प्रभुसेवातत्परः तथाऽणुव्रतपरिपालको द्वादशविधव्रताराधक ईदृग्गुणविशिष्टः श्रावक आनन्दनामा कामदेवनामा चाऽभूत, ययोः सम्यक्त्वं धर्मदृढत्वं सत्यवादित्वं च जिनवरेण श्रीवीरप्रभुणा वर्णितं स्वमुखेन तौ च प्रान्ते सौधर्मे देवलोके समुत्पन्नावभूताम् ।।७६|| ४८-अथ दृढधर्म कामदेवश्रावकस्य कथानकम् यथा-चम्पापुर्याधर्मध्यानकधामा कामदेवनामा श्रावको निवसति स्म स चैकदा कायोत्सर्गध्याने रात्रौ तस्थौ । तस्मिन्नवसरे द्वात्रिंशल्लक्षविमानस्वामी प्रथमदेवलोकाधिपतिः स्वसदसि तत्प्रशंसामकरोत् । तदाकर्ण्य कश्चिन्मिथ्यात्वी देवस्तत्परीक्षायै तत्राऽऽगत्य गजरूपं विकृत्य तमधःपात्य दन्तैरपीलयत् तथापि स ध्यानं न जहौ । तदनु महाकायं सर्परूपं विकृत्योच्चैः फूत्कुर्वन्मुहुर्मुहुस्तं ददंश | परमेतावत्युपसर्गेऽपि स निश्चलतां नाऽत्यजत् । ततो राक्षसरूपं विकृत्याऽट्टहासं विदधदनेकधा तमभीषयच्च घोरोपद्रवमकार्षीत् । इत्थं रात्रौ चतुर्यामं तदुपद्रुतोऽपि मेरुवन्निश्चल एवाऽदर्शि | तदनु तत्पदे प्रणतो देवः स्वाऽपराधं क्षमयित्वा निजस्थानमगात् । एतदेवाह-उपदेशमालायांदेवेहिं कामदेवो, गिही वि नवि चालिओ तवगुणेहिं । मत्तगइंदभुअंगम-रक्खसघोरट्टहासेहिं 1911 "देवैः कामदेवो गृही-गृहस्थोऽपि नापि चालितस्तपोगुणेभ्यो, - 187
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy