________________
सूक्तमुक्तावली मत्तगजेन्द्रभुजङ्गमराक्षसघोराट्टहासैः"| ततः प्रभाते ध्यानं समाप्य श्रीवीरप्रभुं वन्दितुमगात् तत्र च वन्दनानन्तरं प्रभु‘दशविधपर्षदग्रे तमेवं प्रशशंस यथा-भो लोका ! एष कामदेवः श्रावको भूत्वापि यादृशं नियममपालयत् तादृशनियमपालयितारः साधवोऽपि विरलाः सन्ति । तदनु नैशिकोपसर्गजातं सर्वानवोचत । ततः श्रमणाः श्रमण्योऽपि जिनवचनं तत्तथेति कृत्वा, पालयन्ति निरतिचारं चारित्रं सहित्वोपसर्गान् । ततोहृष्टस्तुष्टः पृष्ट्वा प्रश्नान्स लब्धप्रश्नपरमार्थः कामदेवश्राद्धो, वन्दित्वा वीरं, गतः स्वगृहमिति, तथैव सर्वैः सुश्रावकैर्भाव्यम् । इम अरथ-रसाला जे रची सूक्तमाला, धरमनृपति-बाला मालिनी छंदशाला । धरममति धरंतां जे इहां पुन्य बांध्यो, प्रथम धरम केरो सार ए वर्ग साध्यो
॥७७॥ _सूक्तानि, सुभाषितान्येव मुक्ताया आवली-पङ्कितरिव विद्यन्ते यस्यां सैषा सूक्तमुक्तावली धर्मराजस्य पुत्रीवन्निरवयं छन्दोऽर्थादिदोषरहितं सर्वमङ्गं यस्यास्तथाभूता, अत एव महार्था उदारार्था अपि च वैराग्यादिसदसैराढ्यतरा तथाऽनेकैः शार्दूलविक्रीडतेन्द्रवज्रोपेन्द्रवज्रास्वागतावसन्ततिलकादिवृत्तैर्निबद्धाऽपि प्रायेण सर्वजनश्रवणसुखरुचिररसोत्पादकमालिनीवृत्तेनिर्मिता। ततस्तामेनांव्याख्याने सर्वजनपठनश्रवणानन्दायिनीं सद्बोधविधानशालिनीं सरलसरससंस्कृतमयीं सूक्तमुक्तावली धर्मधिया ये पठिष्यन्ति ते धर्मराशिं बन्धयिष्यन्ति ततश्चान्ते सर्वसुखानीप्सितानि प्राप्स्यन्ति । ।
188