________________
सूक्तमुक्तावली पञ्चेन्द्रियैर्वशीकृताः सन्ति तेषां दुःखजातन्तु गदितुं नैव शक्यते । अतः सर्वैः सर्वाणीन्द्रियाणि जेतव्यानि । अन्यथा तेषां सुखस्य लेशोऽपि न संभवति न संभविष्यति चेह परलोकेऽपि ||६६ || विषय - वन चरंतां इन्द्रि जे ऊंटडा ए, निज वश नवि राखे तेह दे दुःखडा ए । अवश करण मृत्यू ज्यूं अगुप्तेंद्रि पामे,
स्ववश सुख लह्यां ज्यूं कूर्म - गुप्तेन्द्रि नामे
॥७०॥
अस्मिन् विषयवने यस्येन्द्रियगण उष्ट्र स्वैरं इव चरति, सदैव स दुःखमाप्नोत्येव । यश्च गुप्तेन्द्रियगणः स कूर्म इव सदैव सुखमनुभवति । अतो निजनिजविषयगत्वराणि स्वेन्द्रियाणि निजायत्तानि कृत्वा सर्वैर्गुप्तेन्द्रियगणैरेव भाव्यम् ||७०||
अथ ३० - प्रमाद - विषये
सहु मन सुख वांछे दुःखने को न वांछे, नहि धरम विना ते सौख्य ए संपजे छे । इह सुधरम पामी कां प्रमादे गमीजे ?, अति अलस तजीने उद्यमे धर्म कीजे
॥७१॥
इह सर्वे लोकाः सुखं वाञ्छन्ति, दुःखं केऽपि नेहन्ते । परन्तु स्वर्गमोक्षसुखनिदानं धर्मं विना सुखमनुभवितुं न शक्यते । ईदृशं धर्ममासाद्य ये तत्र प्रमादाऽऽलस्यादिकं विदधति, तेभ्योऽधिका विमूढाः पापपरायणाः पामराः के सन्ति ? न केऽपीत्यर्थः । अतः प्रमादं त्यक्त्वा चेह परलोके सुखसौभाग्यादिदातरि धर्मे सत्प्राणिवर्गेण सदैव यतितव्यम्
||७१ ||
184