________________
सूक्तमुक्तावली नेच्छति । इति दुर्गतिनिदानं विषयसुखं हेयमेव ||६७|| विषय विकल ताणी कीचके भीम-भार्या, दशमुख अपहारी जानकी राम-नार्या । रति धरि रहनेमी देख श्रीनेमि-भार्या, जिण विषय न वा तेह जाणो अनार्या ૬૮ના
किञ्च-विषयिणां महतामपि या दुर्दशा जायते तां शृणुतचारुतरां पाण्डवभार्यामालोक्य रागान्धीभूतो विराटराजस्य श्यालः कीचको भीमेन दुर्दशीकृतः कालं नीतः । तथैव जानक्या रामपत्न्या अपहारेण लङ्केशः सकुलं रामचन्द्रेण विनाशितः । तथा कन्दर्पवशगो भवन रथनेमिमुनिरपि स्वपत्नीमिव चारित्रवतीमतिरूपवतीमनावृतसर्वाङ्गी नेमिनाथप्रभोः पत्नी राजीमतीमालोक्य तामपि विषयसुखमयाचत । परन्तु तत्राऽवसरेऽनेकदृष्टान्तैः सा सती साध्वी राजीमती तं प्रतिबोध्य मार्गमानीतवती । तदनु सोऽपि भगवतः पार्थे तत्प्रायश्चित्तमकरोत् । यतो विषयिणो जना अनार्या एव भवन्ति, अतोऽहमेवं न स्यामिति विषयो हातव्यः ||६८||
अथ २९-इन्द्रिय-विषयेगज मगर पतंगा जेह भुंगा कुरंगा, इक इक विषयार्थे ते लहे दुःख जंगा । जस परयश पांचे तेहनुं शृं कहीजे ?, इम हृदय विमासी इन्द्रि पांचे दमीजे
॥६९॥ इह खलु यद्येकैकस्यापीन्द्रियस्य वशीभवन्तो गज-मीनपतङ्ग-भ्रमर-मृगादिजीवा महादुःखिनो जायन्ते, तर्हि ये जीवाः
-183