________________
सूक्तमुक्तावली रजनि कपिल बांध्यो स्वर्णनी लोलताए, भमर कमल बांध्यो ते असंतोषताए
॥६६॥ किञ्च-सन्तोषो हि सर्वेषां सुखनिदानमस्ति । यो हि कनकं कामिनीञ्च जहाति स एव सन्तोषी ज्ञातव्यः । पश्यत-कपिलो माषद्वयप्रमितकनकलिप्सया समयमप्यजानन राजपुरुषैश्चौरधिया निगृहीतोऽभूत् । नवनवरसं जिघृक्षुभ्रमरो यथाऽस्तसमयमविज्ञाय कमलान्तस्तिष्ठस्तत्रैव बध्यते, अतः सर्वसुखहेतुः सन्तोष एव सज्जनैः परिधार्यः ||६६।। तत्प्रभावो नीतिशास्त्रेऽप्युक्तं यथासर्पाः पिबन्ति पवनं न च दुर्बलास्ते, शुष्कैस्तुणैर्वनगजा बलिनो भवन्ति । कन्दैः फलैर्मुनिवरा गमयन्ति कालं, संतोष एव पुरुषस्य परं निधानम् ॥१॥ अपि चईप्सितं मनसा सर्वं, कस्य संपद्यते सुखम् ? . देवायत्तं जगत्सर्य, तस्मात्संतोषमाश्रयेत् ॥२॥
अथ २८-विषय तृष्णा-विषयेशिवपद यदि वांछे जेह आनंद दाई, विष सम विषया तो छोडि दे दुःख दाई । मधुर अमृत थारा दूधनी जो लहीजे, अति विरस सदा तो कांजिका स्युं ग्रहीजे ? ॥६५॥
हे भव्यजीवा ! यूयं यदि स्वात्मानन्दप्रदं मोक्षं वाञ्छथ तर्हि महादुःखदमिमं विषयविषं त्यजत । यतः पीयूषमिवातिमधुरं शर्करामिश्र सुस्वादुपयो यस्य संमिलति स विरसमतिकटुकाञ्जिकं कदापि
182