________________
सूक्तमुक्तावली तदा तावताऽतुष्यन् धातक्या अपि परैरसाधितानि यानि षट्खण्डानि तानि साधितुमियेष । ततश्च परिग्रहे ममत्वोदयाद्धातकीखण्डं जिगमिषुरसौ द्विलक्षयोजनप्रमाणे लवणसमुद्रे चर्मरत्नममुञ्चत् तत्र च ससैन्यः स उपाविशत् । तदनु सहस्रदेवैर्वाहितं तच्चचाल । तदैकेन देवेनाऽचिन्ति-अहो ! एतत्षट्खण्डसाधन इयान् कालो लगृ: । पुनर्धातकीखण्डस्य सर्वखण्डसाधने कियान् समयो यास्यतीति को जानाति ? अत इदानीं छन्नोऽहं निजां देवीं मिलित्वा पुनरत्रागच्छानि चेद्वरमिति विचिन्त्यैको देवो गतः । एवं क्रमेण सर्वेऽपि देवा निजनिजप्रेयसी मिलितुं गताः। ततस्तच्चर्मरत्ने बुडिते ससैन्यः स जल एव दुर्ध्यानेन ममार | मृत्वा सुभूमचक्रवर्ती सप्तमं नरकमाप | अतः परिग्रहेऽतिममता नैव कार्या ।
अथ २७-सन्तोषगुण-विषयेसकल सुख भराए विश्व ते वश्य थाए, भवजलधि तराए दुःख दूरे पलाए । निज जनम सुधारे आपदा दूर वारे, नित धरम वधारे जेह संतोष धारे
॥६५॥ . सन्तोषी पुमान् सदैव सुखमुपैति, सकलजनं वशयति । तोयस्थलवणमिव तद्विपदो विलयं यान्ति । संतोषतो भवाम्बुधिं सुखेन तरन्ति । संतोषिणः कदापि दुःखं न जायते । सन्तुष्टस्य जन्मनः साफल्यं जायते, तदात्मनि धर्मोऽपि वरीवृध्यते ।।६५|| सकल सुख तणो ते सार संतोष जाणे, कनक रमणिकेरी जेह इच्छा न आणे ।
-181